________________
COCA A
भी बाचाराग-8 सदीपिका १०२
%
जा-क्षणः अवयनः परसमयावरणादस्त अममी कर्तव्यं तत् तरिम अवितिः
॥ ७०॥
खणयन्ने विणयन्ने ससमयपरसमयन्ने भावन्ने परिग्गई थममायमाणे कालाणुढाई अपडिण्णे" __'अदिस्समाणे' इत्यादि-क्रयश्च विक्रयश्च क्रयविक्रयौ तयोरदृश्यमानः । एवंविधोऽकिंचनो भवति । 'से ण किणे'- स || कालाशादिमोक्षार्थी धर्मोपकरणमपि न क्रीणीयात् स्वतः, नापरेण क्रापयेत् , क्रीणन्तमपि न समनुजानीयात् । स भिक्षुः कालज्ञः- गुणज्ञातकर्तव्यावसरज्ञः, बलज्ञः- आत्मसामर्थ्य जानातीति, मात्रज्ञः- संयमनिर्वाहात्मकां मात्रां जानातीति मात्रज्ञः, खेदज्ञः-खेदः भिक्षुस्व. संसारपर्यटनजनितश्रमस्तं जानातीति, क्षणज्ञः-क्षणः अवसरः भिक्षार्थमुपसर्पणादिकस्तं जानातीति, तथा विनयज्ञः-विनयो रूपम् । ज्ञानदर्शनचारित्रोपचारिकरूपस्तं जानातीति, एवं स्वसमयज्ञः परसमयज्ञः- स्वसिद्धान्तपरसिद्धान्तवेत्ता इत्यर्थः, भावज्ञःभावं चित्ताभिप्रायं दातुः श्रोतुर्वा जानातीति, परिग्रहः- संयमातिरिक्तोपकरणादिस्तं अममीकुर्वन्- अस्वीकुर्वन् मनसायनाददानः । स चैवंविधो भिक्षुः कीदृशो भवतीत्याह- 'काले अणुट्ठाइ 'त्ति- यद् यस्मिन् काले कर्त्तव्यं तत् तस्मिन्नेवानुष्ठातुं शीलमस्येति स कालानुष्ठायी । किञ्च- 'अपडिन्ने'-नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः, प्रतिज्ञा च कपायोदयाद् अविरतिः, तद्यथा-क्रोधोदयात् स्कन्दकाचार्यवत् प्रतिज्ञाकारी न भवतीत्य प्रतिज्ञः, मानोदयात् बाहुबलिना, मायोदयान्मल्लिस्वामिजीवेन प्रतिज्ञा व्यधायि । एवमप्रतिज्ञोऽनिदानो वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोति इत्यत आह
“दुहओ छेत्ता नियाइ, वत्थं पडिग्गह कंवलं पायपुंछणं उग्गहणं च कडासणं एएसु चेव जाणिज्जा" 'दुहओ'ति-द्विधेति रागेण द्वेषेण वा या प्रतिज्ञा, तां छित्वा निश्चयेन नियतं वा याति नियाति ज्ञानदर्शनचारित्राख्ये मोक्षमार्गे संयमानुष्ठाने वा भिक्षाद्यर्थ वा । रागद्वेषौ छित्त्वा प्रतिज्ञा गुणवती, व्यत्यये व्यत्यय इति स एवम्भूतो भिक्षुः किं ॥७०॥
FAISASARANASALA
A