________________
॥ ६९ ॥ किमर्थमाह- 'इहमेगेसिं 'ति- इहेति मनुष्यलोके एकेषां मानवानां भोजनायोपभोगार्थम् । सन्निधिसंचय करणोद्यते सति साधुना किं कर्त्तव्यं १, इत्याह
" समुट्ठिए अणगारे आरिए आरियपने आरियवंसी अयं संवित्ति अदक्खु से नाईए नाइयावर न समणुजाणइ, सब्बामगंध परिण्णाय निरामगंधो परिव्वर "
' सम्मुट्ठिए' इत्यादि - सम्यक् संयमानुष्ठानेनोत्थितः समुत्थितो नानाविधकर्म समारम्भोपरतः, एवंभूतोऽनगारो पुत्रदुहितृस्नुषाज्ञातिधात्र्यादिरहित इत्यर्थः । आर्यश्चारित्राई, आर्या प्रज्ञा यस्य स आर्यप्रज्ञः सर्वज्ञोक्तकरणमतिः, आर्य- न्यायोपपन्नं पश्यतीति आर्यदर्शी । 'अयं संधी'ति - सन्धानं सन्धिः अयं सन्धिर्यस्यासौ अयं सन्धिः यथाकालमनुष्ठायी सर्वज्ञोतक्रियासु निपुणः । ' अदक्खु 'त्ति - यो हि आर्यादिपूर्वोक्तगुणोपेतः स एव परमार्थमद्राक्षीत् नापर इति, परमार्थदर्शिना च सावधपरिहारः कर्त्तव्य इत्यत आह- 'से नाईए 'ति स भिक्षुस्तदकल्प्यं नाददीत न गृह्णीयात् नाप्यपरमादाययेत् नाप्यपरमनेषणीयमाददानं समनुजानीयात् इत्याह- 'सवामगंधं ' इत्यादि- आमं च गन्धव आमगन्धं सर्व्वं च तत् आमगंधं च सर्वामगन्धं - आधा कर्मादिदोषदुष्टं सर्व्वं आमगन्धमपरिशुद्धं ज्ञात्वा प्रत्याख्याय, ' निरामगंधो'- निर्गतौ आमगंधौ यस्मात् स तथा परिव्रजेत् - संयमानुष्ठानं सम्यगनुपालयेत् । आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यल्पसत्वानां विशुद्धकोट्यालम्ब नतया मा भूत् तत्र प्रवृत्तिः, अतस्तदेव नामग्राहं प्रतिषिषेधयिषुराह—
“ अदिस्समाणे कयविषयेसु, से ण किणे न किणावर किणं न समणुजाण, से भिक्खू कालने बाउन्ने मायने लेने
लोकात् शुद्धमाहार
गृहीत्वा
धर्मकाया
रक्षणीया ।
॥ ६९ ॥