________________
बाचाराजस्त्रदीपिका
अपारगामिस्वरूपम् ।
॥ ६२॥
-SLC
निचय इत्यर्थः, स कदाचिद् लाभोदये भवति । असावप्यन्तरायोदयाम तस्योपभोगाय भवतीत्याह- 'तपि सेति-तदपि
समुद्रोत्तरणादिकामिः क्रियाभिः स्वोपभोगायोपार्जितं सत् 'से'-तस्यार्थोपार्जनक्लेशकारिण एकदा-भाग्यक्षये 'दायादाः | गोत्रिणो विभजन्ते, 'विलुंपति-अदत्ताहारचौरः अपहरति राजानो वा विलुम्पन्ति, नश्यति वा स्वत एव, विनश्यति वा जीर्णभावापत्तेः, अगारदाहेन वा दह्यते, कियन्ति वा कारणानि अर्थनाशे वक्ष्यन्ते १, इत्युपसंहरति-एवमर्थनाशे बहूनि कारणानीति । 'परस्सट्टाए'त्ति परस्मै अन्यस्मै अर्थाय-प्रयोजनाय कराणि-गलकर्चनादीनि काण्यनुष्ठानानि बालोऽज्ञा प्रकुर्वाणोविदधानः तेन दुःखेन मूढो-विवेकविकलो विपर्यासमुपैत्ति-विनाशं प्रामोतीत्यर्थः। अपगतसदसद्विवेकत्वात् कृत्याकृत्यं न जानाति । इति सुधर्मस्वामी जम्बूस्वामिनं प्राह-'मुणिणा हु'ति-मुनिना-चीतरागेण हु-निश्चितं, एतत्प्रत्यक्षगोचरं प्रवेदितंकथितम् । वक्ष्यमाणं च प्रवेदितं, किं तदित्याह-'अणोहंतत्ति-ओघ-संसाराम्बुधिं तरन्तीत्योघंतरा:-संयमिनः, न ओघंतराः अनोघंतराः कुतीर्थिकाः पार्श्वस्थादयो वा भगवदाज्ञाविरोधिनः ज्ञानबोहित्थरहिताः संसाराम्भोध्योघतरणसमर्था न भवन्ति । आह च-'नो य ओहं तरिचए-नच नवौघ तरितुं समर्थाः। तथा 'अतीरंगम'ति-अतीरंगमा:-न तीरंगमा अतीरंगमाः, सर्वज्ञोपदिष्टमार्गाभावात् । अपारंगमा:-पारस्तटः परकूलं तद्गच्छन्तीति पारंगमाः, न पारंगमा अपारंगमाः 'एए'त्ति-एते पूर्वोक्ताः पारगतोपदेशाभावात् । अथ तीरपारयोः को विशेष:?, तीरं-मोहनीयक्षयः, पारं शेषघातिकर्मक्षयः । अथ कः कुतीथिकादिः ओघतारी न भवतीत्याह-'आयणिजं'-आदीयन्ते-गृह्यन्ते सर्वभावा अनेनेत्यादीयं श्रुतं, तदादाय तदुक्ते संयमस्थाने | न तिष्ठति स ओघतारी न भवति । न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति, परन्तु विपर्ययानुष्ठायी च भवतीति दर्शयति
च नैवौच मरवदाज्ञाविरोधिनः ज्ञानया संसाराम्बुधिं तरन्तात्याव। एतत्प्रत्यक्षगोच
ANS