________________
वाचाराङ्ग
सूत्रदीपिका
५० २
।। ५८ ।।
विदध्यादित्यर्थः १ । एवं विदितकर्म्मपरिणामस्तल्लाभालाभयोर्नोत्कर्षापकर्षो विधेयौ इत्याह- 'तम्हा पंडिएचि' - यतोऽनादौ संसारे पर्यटता जीवेनासकृदुच्चावच्चानि स्थानान्यनुभूतानि, तम्हति - उस्मात्कञ्चिदुच्चादिकं मदस्थानमवाप्य पण्डितो - हेयोपादेयतत्वज्ञो न हृष्येत्-न हर्ष विदध्यात् नापि नीचस्थानाऽवाप्तौ वैमनस्यं विदध्यात् । आह च- 'णो कुज्झे' ति- तथाऽघनजात्यादिकं लब्ध्वा लोकापइसनीयत्वान्नो क्रुध्येत्-क्रोधं न कुर्वीत । तदेवमुञ्चनीचगोत्रनिर्विकल्पमना अन्यदपि अविकल्पेन किं ? कुर्यादित्याह - 'भूतेहिं' ति भवन्ति भविष्यन्ति अभवन् इति भूतानि - असुभृतः तेषु प्रत्युपेक्ष्य-आलोच्य जानीहि सातं सुखं तद्विपरीतमसातमपि जानीहि । यतः सर्वेऽपि प्राणिनः साताभिलाषिणः सन्ति, असावं जुगुप्सन्ते । एवं च व्यवस्थिते सति किं विधेयमित्याह
"समिए एयाणुपस्सी तंजहा- अन्धत्तं बहिरत्तं मूयत्तं काणतं कुंटतं खुज्जत्तं वडभत्तं सामत्तं सवलत्तं सह पमाएणं अणेगरूबाओ जोणीओ संधाय विरूवरूवे फासे परिसंवेयइ”
' समिए 'त्ति- पञ्चभिः समितिभिः समितः सन् एतत् - शुभाशुभं कर्म्म वक्ष्यमाणं चान्धत्वादिकं द्रष्टुं शीलमस्येति एतदनुदर्शी भूतेषु सातं जानीहि इति संटंकः । तदेवंभूतः सातादिकमनुपश्यति, तदेव दर्शयति- 'अंधत्त 'मिच्चाइ - संसारान्त
मानो जन्तुरन्धत्वादिका अवस्था बहुशः परिसंवेदयते । स चान्धो द्रव्यतो भावतश्च । तत्रै केन्द्रियादि च त्रिकं द्रव्यभावान्धमेव, चतुरिन्द्रियादयस्तु मिथ्यादृष्टयो भावान्धाः सम्यग्दृष्टयस्तु उपहतनयना द्रव्यान्धाः, अनुपहतनयना न द्रव्यान्धा न भावान्धाः । तदेवमन्धत्वं द्रव्यभावभेदभिन्नं एकान्तेन दुःखजनकमवाप्नोति । एवं बधिरत्वमप्यनेकशः प्राप्तं ।
उ० ३
उच्चनीच
गोत्राणि
प्राप्तपूर्वा
|ण्यनेकश
इति मदः
त्याज्यः !
॥ ५८ ॥