________________
बाचाराङ्ग स्त्रदीपिका ब०२
तीर्थकरप्रवेदितमार्गज्ञानप्रकटनम् ।
CASHTRA
मिकार्थमपि क्रियते, तदर्शयति- 'पावमोक्खत्ति'-पातयतीति पापं तस्मान्मोक्ष इतिहेतोः, ममागामिनि भवे यज्ञादिफलमनुगामि भविष्यतीत्येवं मन्यमानो दण्डसमादानाय वर्चते । तथाहि-योगशास्त्रे-तिले व्रीहीरित्यादिश्लोका विचार्याः, प्राग्युपघातकारिणीषु क्रियासु प्रवर्तते, मवशतकोटिदुर्मोच पापमेवोपाददते । 'अदुव आसंसाए 'ति- अथवा आशंसा-- अ. प्राप्तवस्तुप्रापणाभिलापः, तदर्थ दण्डसमादानमादत्ते, तथाहि-ममैतत् परुत्परारि वा परलोके वोपस्थास्यत इत्याशंसया क्रियासु प्रवर्तते, राजानं चाऽबलगति । तदेवं ज्ञात्वा किं कर्त्तव्यमित्याह| "तं परिण्णाय मेहावी नेव सयं एएहिं कज्जेहिं दंड समारंभिजा, नेव अन्नं एएहिं कज्जेहिं दंडं समारंभाविजा, एएहिं कज्जेहि
ई समारंभंतपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए जहेत्य कुसले नोवलिंपिज्जासित्ति बेमि" | लोगविजयस्स वितिओ उद्देसो सम्मत्तो॥
- - ___ 'तं परिणाय 'ति- तदिति शस्त्रपरिज्ञोक्तं स्वकायपरकायमेदमिनं शस्त्रं दण्डसमादानं परिक्षया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् । मेधावी- मर्यादावत्तीं । एतेहिं 'ति-एतैरारम्भसमारम्भादिकार्यैः, अथवा हिंसाधलीकाद्यैः नैव सच्चोपघातादि कुर्यादिति, शेषं पूर्ववत् । 'एस मग्गो'त्ति- एषो मार्गः आर्वीतरागैः प्रवेदित:-कथितः । एवंभूतं मार्ग ज्ञात्वा किं कर्त्तव्यमित्याह-'जहेत्थ 'ति- यथैतस्मिन् दण्डसमुपादाने कुशलोऽवगततत्वः सन् स्वात्मानं नोपलिम्पयेत्-न तत्र संश्लेषं कुर्यात् । विभक्तिपरिणामाद्वा, एतेन दण्डसमुपादानजनितकर्मणा यथा नोपलिप्यसे, तथा सर्वैः प्रकारैः कुर्यास्त्वम् । इतिअन्दः परिसमाप्तौ प्रवीमीति पूर्ववत् । लोकविजयस्य द्वितीयोदेशकः समाः ।।
RAMACHCECASTE