________________
भी
माघाराङ्ग दीपिका ३० २
-॥ ४८ ॥
त्यापद्यते, वययातिक्रान्तं प्रेक्ष्य स-प्राणी खलुरिति विशेषणे विशेषेण मौढ्यमापद्यते इत्याह- 'तओ से मूढ' चि - ततस्तस्मादिन्द्रियविज्ञानापचयाद् वयोऽतिक्रमणाद् वा स प्राणी किं कर्त्तव्यतामूढो भवति । वार्द्धक्ये मूढभावं गतः सन् लोका बगीतो भवतीत्याह
" जेहिं वा सद्धि संवसति तेवि णं एगदा जियगा पुठिंब परिवयंति, सोबि ते णियए पच्छा परिवएज्जा णालं ते तव ताणाए वासरणाएवा, तुमपि तेसिं णालं ताणाए वा सरणाए वा, से ण हासाय ण किड्डाए ण रतीए ण विभूसाए "
'जेहिं वा सद्धि 'ति स एव वृद्धो यैः पुत्रकलत्रादिभिः सार्द्ध - सह संवसति, त एत्र भार्यापुत्रादयो, णं वाक्यालङ्कारे, एकदा - वृद्धावस्थायां नियगा-निजका आत्मीया ये तेनातिकठिनारम्भकर्तृत्वेन पोषिताः समर्थावस्थायां ते पुत्राः, तं वृद्धं परिवदन्ति - यथाऽयं न म्रियते, किमनेन वृद्धेन १ वयं विगोषिताः, न केवलमेषां, तस्यात्माऽपि तस्यामवस्थायामवगीतो भवति । आह च-वलिसन्ततम स्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते किमु कान्ता कमनीयविग्रहा ? ॥ ॥१॥ कोशान्यां धनसार्थवाहवत् । वृहद्वृत्तितोऽवसेयं तस्य कथानकं, तत्र सविस्तरमस्ति । सोऽपि जराभिभूतोऽपि पुत्रपौत्रैः स्नुपादिकैः कदर्थितः । एवमन्योऽपि जराभिभूतजञ्जरिताङ्गः परिभवमाप्नोति । तदेवं जराभिभूतं 'णियग' त्ति-निजाः परिवदन्ति । असावपि पराभवमापन्नस्तदपवादान् जनायाऽऽचष्टे । सो वा इति - वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति - ते वा तं परिवदन्ति स च वृद्धः तान् दोषोद्धनतया परिवदेत् - निन्देत् । येऽपि पूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति तेऽपि दुःखापनयनसमर्था न भवन्ति । आह च- 'नालं ते तव ताणाए 'चि हे वृद्ध ! ते भक्तिनिर्भर निपुणा निजाः पुत्राः तव त्राणाय
उ० १
वृद्धावस्था
दुःखदेति ज्ञात्वा
त्यागे रवि कार्या ।
॥ ४८ ॥