________________
॥४७॥
ॐ4%AMI
मुपपातकारि तत्र पुनः पुनः प्रवर्त्तते । एतच्च साम्प्रतक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्यकं वा स्यात् , तच्चोभयमपि वृद्धभावे नास्तीत्याह- 'अप्पं च खलु आउ'ति- अल्पं-स्तोकं च-पुनः खलु-निश्चितं आयुरिति-भवस्थितिहेतवः कर्मापुद्गलाः। श्रोत्रादिइहेति-संसारे मनुष्यमवे वा, एकेषां- मानवानां- मनुजानां सर्वतोऽल्पायुरन्तर्मुहूर्तमा भवति, उत्कृष्टं पल्योपमत्रयं, 18 विज्ञानतथापि संयमजीवितमन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटिं यावत्संयमायुष्यर्क, तच्चाल्पमेवेति । अथवा त्रिपल्योपमस्थितिकम-II हानिः । ध्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्तमपहाय सर्वमपवर्त्तते । येऽपि दीर्घायुष्यकस्थितिका उपक्रमकारणाभावे आयु:स्थितिमनुभवन्ति, तेऽपि जराभिभूतविग्रहा मरणादप्यधिका जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति
"सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिणाणेहिं परिहायमाणेहिं रसनापरिणाणेहिं परिहायमाणेहिं फासपरिणाणेहिं परिहायमाणेहि अभिकंतं च खलु वयं स पेहाए तओ से एगदा मूढभाव जणयंति"
'सोपरिणाणे 'ति-शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं, तच्च कदम्बपुष्पाकारं द्रव्यतो, भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभावमिति, तेन श्रोत्रेण परिः-समन्ताद् घटपटशब्दादिविपयाणि ज्ञानानि परिबानानि, तैः श्रोत्रपरिज्ञानजैः जराप्रभावात्परिहीयमानः सञ्यिस्ततोऽसौ प्राणी एकदा-वृद्धावस्थायां रोगोदयावसरे वा विवेकशून्यतामापद्यते । एवं चक्षुरादिविज्ञानेष्वपि योज्यम् । श्रोतादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदेवाह-अभिकंतं चेति-तत्र प्राणिनां कालकता शरीरावस्था यौवनादिर्वयः, तजरामभि मृत्युं वा क्रान्तमभिक्रान्तम् । तत्राद्यवयोदयातिक्रमे जराभिमुखमतिकान्तं च वयो भवति । च समुच्चये, । न केवलं श्रोत्रचक्षुर्धाणरसनस्पर्शनविज्ञानय॑स्तसमस्तैर्देशतः सर्वतो वा परिहीयमानौं
॥४७॥
CROCHROCRACK
ARYANA