SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ******* श्री I मे गृहकलनवग्गों मे । इति कृतमेमेशन्दं पशुमिव मृत्युर्जनं हरति ॥१॥ स च परितप्यमानः किंभूतो भवतीत्याह-'कालाका- उ०१ बाचाराग- लसमुहाईति-कालः कर्चव्यावसरः, तद्विपरीतोऽकालः, सम्यगुत्थातुं शीलमस्येति समुत्थायीति पदार्थः । यथा कर्त्तव्यावसरे न ममत्वे करोति अन्यदाच करोति, यथा वा काले करोति एवमकालेऽपि, यथा वाऽनवसरे न करोत्येवमवसरेऽपीति, अपगतकालाकाल- |पतिताना ब०२५ विवेक इति भावना । यथा चण्डप्रद्योतेन मृगावतीग्रहणार्थ कालमतिक्रमणं न ज्ञातम् । यः पुन सम्यकालोत्थायी भवति स यथा- स्वरूप कालं परस्परानाबाधया सर्वाः क्रियाः करोति । यदुक्तम्- मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण, प्रकाशनम्। ॥४६॥ येनान्ते सुखमेधते ॥१॥ धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति । किमर्थं पुन: कालाकालसमुत्थायी भवतीत्याह- 'संजोगट्ठी 'त्ति- संयोजनं संयोगः, तस्य योऽर्थः संयोगार्थः, सोऽस्यास्तीति संयोगार्थी-धनधान्यादिनवविधपरि-18 ग्रहार्थी कालाकालसमुत्थायी भवतीत्याह- 'अट्ठालोभी'- अर्थो-रत्नकुप्यादिः, तत्रासमन्ताद् लोभो अलोभः, स विद्यते यस्येति स तथा, असावपि कालाकालसमुत्थायी भवति, मम्मणवणिग्वत् । पुनरपि लोभिनोऽशुभन्यापारानाह- 'आलंप' आ-समन्ताद लुम्पतीत्यालुम्पः, स हि लोभाभिभूतान्त:करणोऽपगतकर्त्तव्यविवेकोऽर्थलोभैकदच दृष्टिरैहिकामुष्मिकविपाककारिणीनिर्लाञ्छनगलकर्त्तनचौर्यादिकाः क्रियाः करोति । अन्यच्च-'सहसाकारि'त्ति-करणं-कारः, असमीक्षितपूर्वापरदोषं सहसाकरणं सहसाकारः, तथाहि-लोभाभिभूतोऽर्थमेव पश्यति, नापायान् शस्त्रादिछेदनादिकानित्यर्थः । आह च'विणिविट्ट 'त्ति-विविधमनेकधा विनष्टं चित्तमन्तःकरणं यस्याऽसौ स विनिविष्टचित्तः। एवंविधश्च किं भवतीत्याह'एत्थ सत्थि'- अत्राऽस्मिन् मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः सन् पृथिवीकायादिजन्तूनां यत् शस्त्र PU॥ ४६॥ * ** 31
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy