________________
॥ ४५ ॥
किम्भूतः सन् १ प्रमत्तः अनादिभवाम्यासात् शेषं प्रतीतम् । रागः प्रथममुत्पत्तौ मातापित्रादिविषयो भवतीति दर्शयति'माता मे 'ति - मातृविषयो रागः, यथा मदीया माता तीर्थतुल्या मा दुःखं प्राप्नुयात् एवं पितापि । यथा वर्द्धमानस्वामिना गर्मस्थेनाभिग्रहो गृहीतः, कृष्णबलभद्रावपि द्वारिकादाहे किं कृतवन्तौ । तस्यामध्यम्बायाम कार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा - अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति, यथा रामेण पितरि रागात् तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापादिताः, सुभूमेनापि त्रिसप्तकृत्वो ब्राह्मणा इति । भगिन्यर्थं क्लेशमनुभवति प्राणी, भार्यानिमित्तं चाणाक्येनावज्ञातभार्यानोदितेन नन्दान्तिकं द्रव्यार्थमुपगतेन कोपान्नन्दकुलं क्षयं निन्ये । कोणिकेनापि पद्मावतीप्रेरणान्महासंग्राम आरब्घः । पुत्रा मे-पुत्रार्थं श्रेष्ठिना दमनकमारणाय चण्डालः प्रार्थितः, अथवा वरदत्तश्रावण शुभंकरपुत्राय द्रव्योपार्जनाय शिक्षा दत्ता, यथा- कृतज्ञस्वामिसंसेवी उत्तमस्त्रीपरिग्रहः । कुर्वन् मित्रमलोमं च नरो नैत्रावसीदति ||१|| सुता मे तदर्थ जरासन्धेन स्वकुलं क्षयं नीतम् । स्नुषा मे न जीवन्तीत्यारम्भादौ प्रवर्त्तते । सविस्वजनसंग्रन्थसंस्तुता मे - सखा - मित्रं, स्वजनः पितृव्यादिः, संग्रन्थः - स्वजनस्यापि स्वजनः पितृव्य पुत्रशालकादिः, संस्तुतो भूयोभूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः शालकादिः स इह ग्राह्यः, स च मे दुःखितो भवतीति परितप्यते । 'विवित्त'त्तिशोभनं प्रचुरं वा, उपकरणं - हस्त्यश्वरथासनमञ्चकादि, परिवर्तनं द्विगुणत्रिगुणादिमेदभिनं, तदेव भोजनं- मोदकादि, आच्छादनं - पट्टयुग्मादि, तच मे भविष्यति नष्टं वा । 'इच्चत्थं' ति - इत्येवमर्थं गृद्धो लोकः मातापित्र्यादिपूर्वोक्तनिमित्तेषु आमरणं प्रमत्तो ममेदमहमस्य स्वामी पोषको वेति मोहितमना वसेत् - तिष्ठेत् तदर्थमहोरात्रं परितप्यमानः । उक्तं च-पुत्रा मे भ्राता मे स्वजना
संसारका रणममत्वपरिवर्जनों - पदेशः ।
||| 84 11