SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ॥ ४३ ॥ ' से वसुमं 'ति - स षट्का यहनन निवृत्तत्वाद् वसुमान् - भावद्रव्योपेतः । 'सवगय'त्ति - प्रज्ञानानि यथावस्थितविषयग्राहीणि ज्ञानानि प्रज्ञानानि सर्वाणि समन्वागतानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञानः- सर्वावबोधविशेषानुगतः । एवंविधेनात्मना अकरणीयं- अकर्त्तव्यं इहपरलोके विरुद्धत्वादकार्यमिति मत्वा नान्वेषयेत् । किं पुनस्तदकरणीयं नान्वेषयितव्यं १, उच्यते, ' पावं 'ति पापं कर्म अधःपतनकारित्वात् पापं प्राणातिपाताद्यष्टादश भेदभिन्नं नान्वेषयेत् न कुर्यात् स्वयं, न चान्यं कारयेत् न कुर्वाणमन्यमनुमोदयेत् । एतदेवाह - 'तं परिण्णाय' चि - तत्पापमष्टादशधा परि:- सर्व्वतो ज्ञात्वा मेधावीमर्यादावान् नैव स्वयं षड्जीवनिकायशस्त्रं स्वपर काय शस्त्रादिभेदं समारभेत्, नैवान्यैः समारम्भयेत्, न चान्यान् समारम्भमाणान् समनुजानीयात् । एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकाय शस्त्रसमारम्भाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिया परिहृता भवन्ति, स एव मुनिः प्रत्याख्यातकर्म्मत्वात् इति शब्दोऽध्ययन समाप्त्यर्थः । ब्रवीमीति श्रीसुधर्म्मस्वाम्याह स्वमनी पिकाव्यावृत्तये श्रीवर्द्धमानस्वामिन उपदेशात् सर्व्वमाख्यातं मयेति । इदं चाध्ययनं साधुना यदा ध्यातं भवति अर्थतश्च शिष्यणावतं भवति तदाऽस्योपस्थापना - विधिना महाव्रतारोपणं कार्य चेति । इतिश्रीचन्द्रगच्छाम्भोजदिनमणीनां श्रीमहेश्वर रिसर्वसूरिशिरोमणीनां पट्टे श्री अजितदेवसूरिणा विरचितायां श्रीमदाचाराङ्गस्य दीपिकायां प्रथमाध्ययनं समाप्तमिति । अथोक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते । अस्य चायमभिसम्बन्धः । अधिगतशस्त्रपरिज्ञा सूत्रार्थस्य तत्प्रतिपादितै केन्द्रियादिश्रद्दधानस्य सम्यक्तद्रचापरिणामवतः तद्योग्यतयारोपित महाव्रतभारस्य साघोर्यथा रागादिकषायलोकस्य सर्वजीवज्ञानक्रिया युक्तस्य सातोरुप स्थापना करण प्रद र्शनम् ॥ ॥ ४३ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy