________________
।। ३९ ।।
व्या० - प्राग्वत् मावनीयं यावत् स एव मुनिः त्रसकायसमारम्भनिवृत्तत्वात् प्रत्याख्यातकर्म्मत्वात् इति ब्रवीमि भगवतत्रैलोक्यबन्धोर्जगजीववात्सल्यकारिणः परमकेवलालो कसाक्षात्कृत सकलभुवनप्रपञ्चस्योपदेशात् । इति शस्त्रपरिज्ञायां षष्ठोदेशकः समाप्तः ।
उक्तो षष्ठोद्देशकः, साम्प्रतं सप्तमः प्रारभ्यते, अस्य चायं सम्बन्धोऽभिनवधर्माणां दुःश्रद्धानत्वात् अल्पपरिभोगत्वादुत्क्रमायातस्योकशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यते । तचेदं सूत्रम् -
" पहू एजस्स दुगुंछणाए "
व्या० - अस्य चायमभिसम्बन्धः । अनन्तरोद्देशके त्रसकायपरिज्ञानं तदारम्भवर्जनं च मुनित्वकारणमभिहितम् । इहापि तदेव द्वयं वायुकायविषयं मुनित्वकारणमेवोच्यते । तच्च 'पहू एजस्स' चि-एज कम्पने एजतीति एजो वायुः कम्पनशीलत्वात् तस्यैजस्य जुगुप्सा - निन्दा तदासेवन परिहारो निवृत्तिः, तस्यां तद्विषये प्रभुर्भवतीति । अर्थात् यदि श्रद्धाय जीवतया जुगुप्सते ततः । योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयति
" आयंकदंसी अहियंति णच्चा, जे अज्झत्थं जाणइ, से बहिया जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ एवं तुलमनेसिं" ' आयंके' चि- आतंको-दुःखं, तच्च द्विविधं शारीरं मानसं च एतदुभयमातङ्कः, आतङ्कं भयं पश्यतीति आतंकदर्शी, अवश्यमेतदुभयमपि दुःखं मयि अनिवृत्तकाय समारम्भे आपतति । एतद्वायुकायारम्भणं आतंकहेतुभूतं 'अहियं'ति-अहि तमिति ज्ञात्वैतस्मान्निवर्त्तने प्रभुर्भवति । वायुकाचारम्भनिवृत्तेः कारणमाह- 'जे अज्झत्थं' ति - आत्मानमधिकृत्य यद् बर्चते
वायुकाय जीवविरा
धनानिषु
चिकारण
दर्शनम् ।
॥ ३९ ॥