________________
श्री बाचारा- सदीपिका
त्रसकायहिंसावर्जको मुनिः ।
॥३८॥
CHAHR
विधानैरिति अर्चा-देहस्तदर्य व्यापादयन्ति । तथा लक्षणवत्पुरुष अक्षतमव्यंगं व्यापाथ तच्छरीरेण विद्यामत्रसाधनानि कुर्वन्ति, उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, तथा अजिनार्थ चित्रकव्याघ्रादीन् व्यापादयन्ति, एवं मांसशोणितहृदय| पिचवसापिच्छपुच्छवालशृंगविषाणदन्तदंष्ट्रानखस्नाय्वस्थ्यस्थिमिञ्जादिष्वी वाच्यं, तत्र मांसार्थ शूकरादयः, त्रिशूलालेखार्थ शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मध्नन्ति, पित्तार्थ मयादयः, वसार्थ व्याघ्रमकरादयः, पिच्छार्थ मयूरगृध्रादयः, पुच्छार्थ रोझादयः, बालार्थ चमर्यादयः, शृङ्गार्थ रुरुखड्ग्यादयः, तत् किल शृंगं याज्ञिकाः पवित्रमिति गृह्णन्ति, विषाणार्थ शृगालादयः, दन्तार्थ हस्त्यादयः, दंष्ट्रार्थ वराहादयः, नखार्थ केचिजातीया जन्तवः । एवमेके यथोपदिष्टप्रयोजनकलापापेक्षया मन्ति । अपरे तु ककलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति । अन्ये पुनः 'हिंसिसु मेंति-हिंसितवानेषोऽस्मत्स्वजनान् सिंहः सोऽरिर्वाऽतो मन्ति, मम वा पीडां कृतवन्त इत्यतो प्रन्ति । तथाऽन्ये वर्चमानकाले एव हिनस्ति अस्मान् सिंहोऽन्यो वेति नन्ति । तथाऽन्येऽस्मानयं हिसिष्यति इत्यनागतमेव सर्पादिकं व्यापादयन्ति । एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्य उद्देशकार्थमुपसञ्जिहीर्षुराह
“एत्य सत्यं समारभमाणस्स इश्वेते आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्छेते आरंभा परिणाया भवन्ति, तं परिण्णाय मेहावी व सयं तसकायसत्यं समारंभेजा, वन्नेहिं तसकायसत्थं समारंभावेजा, वऽण्णे तसकायसत्यं समारंभंते समणुजाणेज्जा, जस्सेते तसकायसमारंभा परिण्णाया भवंति, सेहु मुणी परिण्णायकम्मेत्ति बेमि ।" सत्यपरिणाए छहोरेसो सम्मत्तो॥
॥३८॥