________________
श्री
।
ते
बाचाराङ्ग- सत्रदीपिका
वनस्पतिजन्या:द्वादिगुणा | इति प्रदर्शनम् ।
अतो ज्ञानप्रतिपादनायाह-'मत्ता मइमं 'ति-मत्या-ज्ञात्वा अवबुध्य यथावत् जीवान्, मतिरस्याऽस्तीति मतिमान् तस्य सम्बोधनं क्रियते हे मतिमन् ! प्रव्रज्यां प्रतिपद्य जीवादिपदार्थांश्च ज्ञात्वा मोक्षमवानोति, सम्यगलानपूर्विका हि क्रिया फलवतीति दर्शितम् । पुनरत्रैवाह- अभयं विदित्ता- अभयं-सप्तदशधा संयमस्तं विदित्वा-ज्ञात्वा 'तं जे णो 'त्ति तद् वनस्पत्यारम्भ नो कुर्यात , ' एसो'त्ति-एष एवोपरत:, किमन्यतीर्थिकः । न हि, 'एत्थो 'त्ति-जैनप्रवचने नान्यत्र. एप एवाऽनगारः प्रोच्यते । अथ शब्दादिविषया वनस्पतिभ्यः संजायते तद्दर्शयितुमाह
"जे गुणे से आवट्टे जे आवट्टे से गुणे" यो गुणः-शब्दरूपरसगन्धस्पर्शलक्षणः स एवावः-संसारः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतः, यश्चावचे वर्तते स शब्दादिगुणेषु वर्तते इति भावः । कथं पुनर्गुणभूयस्त्वं वनस्पतिभ्य इत्याह-वेणुवीणापटहातोद्यादीनां वनस्पतेरुत्पत्तिः, ततश्च मनोहराः शब्दा निष्पद्यन्ते, पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृहतोरणवेदिकास्तम्भादिषु च चक्षुरमणीयं रूपं भवति । गन्धोऽपि हि कर्पूरपाटललवङ्गकेतकीसरसचन्दनागरुककोलजातीचम्पकैलाजातिफलादीनाम् । जिह्वे. न्द्रियप्रहादिनोऽनेके रसाः तेभ्यो निष्पद्यन्ते । तथा स्पर्शाः पद्मिनीपत्रकमलदलमृणालवल्कलदुकूलशाटकोपधानतूलीप्रच्छदपटादीनां स्पर्शेन्द्रियसुखाः प्रादुष्यन्ति । एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्त्तते स आवर्ने वर्तते । यश्चावर्ती स रागद्वेषात्मकत्वात् गुणेषु प्रवर्तते । अथ ये एते गुणाः संसारावर्तकारणभूताः शब्दादयो वनस्पतिनिष्पन्नास्ते किं नियतदिगभाजः ?, कि सईदिक्षु वर्जिन', इत्यत आह
हि कर्पूरपाटलला स्पर्शः पचिनीया शब्दादिगुणेषु यो वनस्पतिनिष्पन्नास्ते
GRACEREMOREGAR