SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ थाचाराङ्ग पत्रदीपिका ब०१ ॥२८॥ उ०४ अग्निहिंमा निकारको मुनिर्भरति निश्रिताः पृथ्वीकायत्वेन परिणताः, तदाश्रिता या कृमिकुन्थुपिपीलिकाऽहिमवृश्चिकादयः, तथा वृक्षगुमलतादयः, तथा तृणपत्रनिश्रिताः पतङ्गेलिकादयः, तथा काष्ठनिषिता घुणोदेहिकादिनामण्डादयः गोमयनिश्रिताः कुन्थुपनकादयः, कनवरनिश्रिताः कीटकम्यादयः। 'संति संपातिम 'त्ति-सन्ति-विद्यन्ते सम्पातिसाः प्राणाः सम्पतितुं- उप्लुत्योहलुत्य पतनं येषां ते सम्पातिनः। पृथ्व्यादिनिश्रितानां च अग्न्यारम्भे किं भवति , तद्दर्शयति- 'अगणिं चे 'त्यादि- अग्निना स्पृष्टा एके शलभादयः संघात- समेकीभावेनाधिकं गात्रसंकोचमापद्यन्ते- प्राप्नुवन्ति, ते च तत्राग्नौ पतिताः संघातमापद्यन्ते ते प्राणिनस्तत्राग्नौ 'पर्यावजंति'- पर्यापद्यन्ते-- उष्माभिभूता मूर्छामापद्यन्ते, ते प्राणिन एकद्वित्रिचतुःपश्चेन्द्रियादयः, तत्रानावुपद्रावन्ति- प्राणान् मुश्चन्तीत्यर्थः। तदेवमनिसमारम्भे न केवलमग्मिजन्तूनां विनाशः, किन्त्वन्येषामपि पृथ्वीतृणपत्रकाष्ठगोमयकचवराश्रितानां सम्पातिमानां च व्यापत्तिरवश्यं भवतीति । भगवत्यामुक्तं च-“दो पुरिसा सरिसवया अनमन्नेहिं सद्धिं अगणिकायं समारंभंति, तत्थ णं एगे पुरिसे अगणिकार्य समुजालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मयराए के पुरिसे अप्पकम्मयराए ?, गोयमा ! जे उजालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मयराए" ॥ तदेवं प्रभृतप्राण्युपमईनकरमग्न्यारम्भं ज्ञात्वा त्रिकरणशुद्धिभिस्तत्परिहारः कार्य इत्याह "एस्थ सत्थं समारंभमाणस्स इच्छेते आरंभा अपरिणाया भवन्ति, एत्थ सत्थं असमारंभमाणस्स इचेतें आरंभा परिण्णाया भवन्ति, तं परिण्णाय मेहावी व सयं अगणिसत्थं समारंभेजा नेवऽण्णेहिं अगणिसत्थं समारंभावेज्जा अगणिसत्थं समारंभमाणे अण्णे न समणुजाणेज्जा, जस्सेते अगणिकम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मेत्ति बेमि।" चउत्थोद्देसो समचो॥ CALCCASSEKACCRA T ॥२८॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy