SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ॥ २७ ॥ वयमनगारा इत्येके प्रवदमानाः, किं तैर्विरूपमा चरितम् १, गुरुराह - यदिदं विरूपरूपैः शस्त्रैरग्निकर्म्मसमारम्भेण अग्निश समारभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति, 'तत्थ खलु' चि- तत्र खलु भगवता परिक्षा प्रवेदिता । अस्यैवाऽसारजीवितस्य परिवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं, एवंविधः सन् अग्निशस्त्रं समारभते, अन्यैवाग्निशखं समारम्भयति तथाऽन्यांश्चाग्निशस्त्रं समारभमाणान् समनुजानीते । एवमग्निकार्यं समारभमाणस्य किं १ फलं स्यादित्याह तच्चाग्नेः समारम्भणं से-तस्य सुखलिप्सोरमुत्राऽन्यत्र चाऽहिताय भवति, तथा तस्याऽबोधिलाभाय भवति । 'सेतं संबुज्झमाणे 'ति - स तु शिष्यस्तदऽग्निसमारम्भणं पापायेत्येवं संबुध्यमानः आदानीयं - सम्यग्दर्शनादि सम्यगुत्थायअभ्युपगम्य सोच्चा- श्रुत्वा भगवदन्ति के अणगाराणामन्तिके च 'इहमेगेसिं' - इहैकेषां साधूनां ज्ञातं भवति । किं १, तद्दर्शयतिएषोऽग्निसमारम्भो ग्रन्थः कर्म्मबन्धहेतुत्वात् एष एव मोहः, एष एव मारः, एष एव नरकः । इत्येवमर्थं च गृद्धो लोको | यत्करोति, तद्दर्शयति- यदिदं विरूपरूपैः शस्त्रैरग्निकाय कर्म समारभते, अग्निशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनो विहिनस्ति । कथं १ तत्र प्रवृत्ताः पुनर्नानाविधान् प्राणिनो हिंसन्तीत्याह " से बेमि-संति पाणा पुढवीनिस्सिया तणनिस्सिया कट्ठनिस्सिया गोमय निस्सिया कयवर निस्सिया, संति संपातिमा पाणा आहच्च संपयंति, अगणिं च खलु पुट्ठा एगे संघायमावज्जंति, जे वत्थ संघायमावज्जंति, ते तत्थ परियावज्जंति, जे तत्थ परियावज्चंति ते वत्थ उद्दायति” तदहं त्रवीमि यथा नानाविधजीवहिंसनमनिकायसमारम्भेण भवति । सन्ति-विद्यन्ते प्राणा जन्तवः पृथ्वीकाय अन्यतीर्थिका अग्निहिंसाजन्यातनेकजीवहिंसकाः । ॥ २७ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy