________________
॥२१॥
STARAKHERE
LR |ऽकायसमारम्मो ग्रन्थः, एष खलु मोहः, एष खलु मारः, एष खलु नरकः, इत्येवमर्थ गृद्धो लोकः, यदिदं विरूपरूपैः शस्त्रैः |
जलस्प उदककर्मसमारम्भेणोदकशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्ति । ‘से बेमी'ति सोऽहमेवमुपलब्धा
जीवत्वनेकाकायतत्ववृत्तान्तो ब्रवीमि-'संतिपाण'ति-सन्ति विद्यन्ते प्राणिन उदकनिश्रिता:-पूतरकमत्स्यादयो यान् उदक: रम्भ
सिद्धिः प्रवृत्तौ हन्यात् । कियन्तः पुनस्ते इति दर्शयति-'जीवा अणेगा' पुनर्जीवोपादानमुदकनिश्रितप्रभूतजीवमेदज्ञापनार्थ । एकैकस्मिन् जीवभेदे उदकाश्रिता अनेके-असंख्येयाः प्राणिनो भवन्ति, एवं चाप्कायविषयारम्भभाजः पुरुषास्ते तनिभितप्रभूतसत्त्वव्यापचिकारिणो दृष्टव्याः। शाक्यादयस्तूदकनिश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति, नोदकमित्येतदेव दर्शयति
"इहं च खलु भो ! अणगाराणं उदयजीवा वियाहिया" इहैव शातपुत्रीये प्रवचने अनगाराणां उदकं जीवा व्याहृताः-प्रतिपादिताः। च शब्दात् तदाश्रिताश्च पूतरकमत्स्यादयो जीवा व्याख्याताः। यद्येवमुदकमेव जोवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपातमाजः साधव इत्यत्रोच्यते, नैतदेवं, यतो वयं विविधमकायमाचक्ष्महे-सचित्तं मिश्रमचित्तं च, तत्र योऽचित्तोऽकायस्तेनोपयोगविधिः साधूनां, नेतराभ्यां । कथं पुनरसौ मवत्यचित्तः किं स्वभावात् उत शस्त्रसम्बन्धात् , उमयथापीति !, तत्र यः स्वभावादेवाऽचित्तीभवति न बादशस्त्रसम्पर्कात् , तमचिचं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसंगभीरुतया । यतो नु श्रूयते भगवता किल बईमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलासादिरहितो महाइदो व्यपगताऽशेषजन्तुकोऽचित्तवारिपूर्णः स्वशिल्यानां इबाधितानामपि पानाय नानुजजे । तथा अचिचतिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय