________________
भी
याचाराङ्गसूत्रदीपिका
ग० ८
।। २१० ॥
विमोक्षाध्ययने षष्ठोदेशकः समाप्तः ॥
साम्प्रतं सप्तममारभ्यते तस्यादिमं सूत्रम्
" जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं वणफासं अहियासित्तर सीयफासं अहियासित्तए फासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासितए, हिरिपढिच्छायणं चऽहं नो संचारमि अहियासित, एवं से कप्पेइ कडिबंधणं धारितए
' जे भिक्खू' इत्यादि-यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषादऽचेलो- दिग्वासाः ' पर्युषितः 'संयमे व्यवस्थितः । ' तस्स णं 'ति तस्य भिक्षोः एवमिति वक्ष्यमाणोऽभिप्रायो भवति । तद्यथा-' चाएमी त्यादि-शक्रोम्यहं तृणस्पर्शमघिसोढुं तथा शीतोष्णदंशमशकस्पर्शमधिसोदुमिति । तथा एकतरान् अन्यतरांश्चानुकूल प्रत्यनीकान् विरूपरूपान् स्पर्शान् दुःखविशेषान् अध्यासितुं समर्थः । किन्त्वहं ही-लज्जा तथा गुह्यप्रदेशस्य प्रच्छादनं ह्रीप्रच्छादनं तच्च त्यक्तुं नाहं शक्रोमि । एतच्च प्रकृतिलआलुकतया साधनविकृतरूपतया वा स्यात् । एवमेभिः कारणैः से-तस्य 'कल्पते' युज्यते ' कटिबन्धनं 'चोलपट्टकं कर्त्तुं स च विस्तरेण चतुरंगुलाधिको हस्तो, देध्येण कटिप्रमाण इति । एतत्कारणाभावेऽवेल एव पराक्रमेतअचेलतया शीतादिस्पर्श सम्यगधिसहेतेति । एतत्प्रतिपादयितुमाह-
" अदुवा] तत्थ पराकमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफाजा फुसन्ति दंसमसगफासा फुसन्ति एगयरे विरूवरूवे फासे अहियासए अचेले लाघवियं आगममाणे जाव समभिजाणिवा "
उ०
मिक्षोः
कारण
सद्भावे
चोलपट्टकस्यानुज्ञा ।
॥ २१० ॥