SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ॥१७॥ सम्पूर्ण मुनित्व कारणप्रद शेनम् । ROTECRUSHILLARKITA ग्राहमाह-''मित्यादि-तं पृथिविकायसमारम्मे बन्धं परिज्ञाय, असमारम्मे चाऽबन्धमिति ज्ञात्वा, मेधावी-कुशल एतस्कुर्यादिति दर्शयति-नैव पृथिवीशखं द्रव्यमावभिन्न समारमेत, नापि तद्विषयोऽन्यः समारम्भः कारयितव्यः, न चान्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयाद् इति, एवं मनोवाकायकर्मभिरतीतानागतकालयोरप्यायोजनीयमिति । ततश्चैव कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते न शेष इति दर्शयन्नुपसंजिहीर्षुराह-यस्य-विदितपृथिवीजीववेदनास्वरूपस्य 'एते' पृथिवीविषयाः कर्मसमारम्माः खननकृष्याद्यात्मकाः कर्मबन्धहेतुत्वेन परिज्ञाता भवन्ति ज्ञपरित्रया, तथा प्रत्याख्यानपरिजया च परिहता भवन्ति, हुरवधारणे, स एव मुनिः स एव परिज्ञातकर्मा, नापरः शाक्यादिः । ब्रवीमीति पूर्ववदिति । श्री आचारांगे पृथिवीकायोद्देशकः समाप्तः॥ अथ गतः पृथिव्युदेशकः, साम्प्रतमकायोद्देशकः प्रारम्यते, तत्रेदं सूत्रम् "से बेमि से जहावि अणगारे उजुकडे नियायपडिवण्णे अमासं कुवमाणे वियाहिए" 'से वेमि' इत्यादि-व्याख्या-अस्य चायमभिसम्बन्धः, इहाऽनन्तरोद्देशके परिसमाप्तिस्त्रे पृथिवीकायसमारम्भण्यावृत्तो मुनिरित्युक्तं, न चैतावता सम्पूर्णो मनिर्भवति, यथा च भवति तथा दर्शयति । तथाऽऽदिखत्रेणाय सम्बन्धः-सुधर्मस्वामी इदमाह-श्रुतं मया भगवदन्तिके यत्प्राक् प्रतिपादितं, अन्यच्चेदं से बेमि से जहे'ति-स यथा पृथिवीकायसमारम्भाविवचः है| सम्पूर्णाऽनगारव्यपदेशभाग्भवति, तदहं ब्रवीमि । अपि समुच्चये, स यथाऽनगारो भवति तथा प्रवीमि । 'अणगारे'ति-न विद्यते अगारं-गृहमस्येत्यनगारः, अनेन गृहत्यागप्रधान सनित्वकारणमिति दर्शयति । 'उज्जुकडे 'चि-ऋजुरकुटिलः संयमस्तं 1 ॥१७॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy