SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ बाचारागरखदीपिका 3% उ०२ पृथ्ख्यारम्मवर्जी स मुनिः । 85 आछिन्याद् बेति, एवं जहाजानरूकटीनाम्युदरपार्थपृष्टोरोहदयस्तनस्कन्धबाहुहस्तालिनखग्रीवाहनुकोष्टौष्टदन्तजिहातालुगलगण्डकर्णनासिकाक्षिभूललाटशिरप्रभृतिष्पवयवेषु मिद्यमानेषु छिद्यमानेषु वा वेदनोपपचिर्लक्ष्यते, एवमेषामुत्कटमोहाशानभाजां स्त्यानाद्युदयादव्यक्तचेतनानामव्यक्तव वेदना भवतीति ग्रामम् । तत्रैव दृष्टातान्तरमाह-'अप्पेगे संपमारए' चि-यथा नाम कश्चित् समेकीभावेन प्रकर्षेण प्राणानां मारणं अव्यक्तत्वापादनं कस्यचित् कुर्यात् , मूर्छामापादयेदित्यर्थः, तथावस्थं च यथा नाम कश्चिदऽपद्रापयेत्-प्राणेभ्यो व्यपरोपयेत् , न चासौ तां वेदनां स्फुटमनुभवति, अस्ति चाव्यक्ता तस्यासौ वेदनेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति । पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशतसम्पाते वेदनां चावि व्याधुना तद्वधे बन्धं दर्शयितुमाह “एत्य सत्यं असमारभमाणस्स इचेते आरंभा परिण्णाता भवंति, तं परिणाय मेहावी नेव सयं पुढविसत्वं समारंभेजा वण्णेहिं पुढविसत्थं समारंभावेब्बा णेवण्णे पुढविसत्वं समारंभंते समणुजाणेज्जा, जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से हुमुणी परिणातकम्मेति वेमि" अत्र पृथ्वीकाये शतं द्रव्यभावमेदमिन, तत्र द्रव्यशत्रं स्वकायपरकायोमयरूपं, भावशस्त्रं त्वऽसंयमो दुष्प्रणिहितमनो वाकायलक्षणः । एतद् द्विविधमपि शस्त्रं समारम्भमाणस्य इत्येते कृष्याद्यात्मकाः समारम्माः बन्ध हेतुत्वेनापरित्राता अविदिता भवन्तीति दर्शयितुमाह- 'एत्थे'त्यादि, 'अत्र' पृथिवीकाये द्विविधमपि शखं असमारंभमाणस्य-अव्यापारयत इत्येते प्रागुक्ताः कर्मसमारम्भाः परिवाता विदिता भवन्ति, अनेन च विरत्यधिकारः प्रतिपादितो भवति, तामेव विरतिं स्वनाम %
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy