________________
K
उ०३ शीतजन्ये
देहकम्पे ला सति गृहस्थशङ्का
श्री दा 'तं भिक्खु ' मित्यादि-तं मिक्षुमतिक्रान्तयौवनं शीतस्पर्शपरिवेपमानगात्रं उपसंक्रम्य-समीपमागत्य गृहपतिरश्वर्यादि- याचाराङ्ग | सामग्र्युपेतः सन् , किमयं मुनिः मत्सुन्दरीमालोक्य सात्विकमावोपेतः कम्पते ?, उत शीतेनेत्येवं संशयानो ब्रूयात्-मो आयुसत्रदीपिका ४॥
|मन् ! श्रमण ! नो भवन्तं ग्रामधा विषया उत्प्राबल्येन बाधन्ते !, एवं गृहपतिनोक्ते विदिताभिप्रायः साधुराह-' आउ. संतो'-आयुष्मन् गृहपते ! नो खलु मम ग्रामधर्मा उद्धाधन्ते । यत्पुनर्वेपमानगात्रमीक्षांचकृषे तत् शीतस्पर्शविज़म्भितं, न तु मनसिजविकारः । शीतस्पर्श अहं न शक्नोमि सोढुमधिसहितुं वा । एवमुक्तः सन् गृहपतिः करुणाकटाक्षितो वक्ति, सुप्रज्वलितमग्निं किमपि न सेवसे ? । मुनिराह-'णो खलु' इत्यादि-भो गृहपते ! न खलु मे कल्पते ममानिकायमुज्वा. लयितुं प्रज्वालयितुं, स्वतो ज्वलितादौ कायं-शरीरमीषत् तापयितुमातापयितुं वा । ' अन्नेसि 'ति- अन्येषां वा वचनाव ममैतत् कर्तुं न कल्पते, यदिवाऽग्निसमारम्भायाऽन्यो वा वक्तुं न कल्पते ममेति । तं चैवं वदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह-'सिया से एव' मित्यादि-स्यात् कदाचिदपरो गृहस्थ एवमुक्तनी त्या वदतः साधोरग्निकायमुज्वाल्य प्रज्वाल्य वा कायमातापयेत् प्रदापयेद् वा । तच्चोज्वालनप्रतापनादिकं भिक्षुः प्रत्युत्प्रेक्ष्य-विचार्य खसन्मत्या परव्याकरणेनान्येषां वान्तिके सा अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत्-प्रतिबोधयेत् । कया? अनासेवनया। यथैतन्ममाऽयुक्तमासेवितुं, ममाऽ सेवितुं न कल्पते इति साधुवाक्यम् । भवता तु पुनः साधुभक्त्यनुकम्पाभ्यां पुण्यप्राग्मारार्जनमकारीति एतद् बृहद्वृत्तेर्वाक्यं न तु सूत्रपाठः, तत्त्वं केवलिनो विदन्ति, इति विमोक्षाध्ययने तृतीयोद्देशः समाप्तः॥
अथ चतुर्थोद्देशकः प्रारम्यत, तस्यादिनं सूत्रम्
करणीया।
SRKAACARRAHASE
RICA-
SHASCARCIRCASH
१९८॥