________________
श्री
1*
बाचाराङ्गस्त्रदीपिका
अ०८ ॥ १९६॥
घाईपुरुषप्रद: र्शनम् ।
SHOCALCALCASHA
अतो मध्यमेन वयसाऽप्येके संबुद्ध्यमाना धर्मचरणाय सम्यगुत्थिता इत्याह-'सोचे 'त्यादि-इह विविधाः सम्वुध्यमाना भवन्ति, तद्यथा-स्वयंबुद्धाः प्रत्येकबुद्धा बुद्धबोधिताश्च । तत्र बुद्धवोधितेनेहाधिकारः। मेधावी मर्यादावान् पण्डितानां तीर्थकृदादीनां वचनं श्रुत्वा-आकावधार्य समतामवलम्बेत । किमिति ? यतः-'समयाए 'ति-समतया माध्यस्थेनाऽऽय:-तीर्थकृद्भिर्धर्मः श्रुतचारित्राख्यः प्रवेदितः । ते बुध्यमानाः किं कुर्युरित्याह-'ते अणहिकखेत्यादि'-ते निष्क्रान्ताः कामभोगान् अनभिकांक्ष्यमाना विरक्तात्मान इत्यर्थः । पुनः किं ते १, 'अणतिवाएति-प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृहन्तः । एवम्भूताश्च स्वदेहेऽपि अममत्वाः ' सवाति 'ति- स्वस्मिन्नपि लोके नो परिग्रहवन्तश्च भवन्तीति । किञ्च'निहाय 'त्ति-निहाय दण्डाः निहाय-त्यक्त्वा दण्डा-आरम्भविशेषाः त्यक्तसमारम्मा इत्यर्थः । 'पाणेहिं 'ति-प्राणिम्यो निहाय त्यक्त्वा पापं पापोपादानं कर्माऽष्टादशमेदभिन्नं, तदऽकुर्वाणोऽनाचरन् 'एसमहं 'ति-एषो महान् अग्रन्थः-न विद्यते द्विधाऽपि मन्थो यस्याऽसावग्रन्थः, 'वियाहिए 'ति-व्याख्यातः तीर्थकरादिभिः। कश्चैवम्भूतः स्यादित्याह-'ओए'ओजोऽसहाय एकः रागद्वेषाभावात् , द्युतिमान्-संयमो मोक्षो वा तस्य खेदज्ञो-निपुणः। देवलोकेऽपि उपपातं व्यवनं च ज्ञात्वा सर्वस्थानानित्यताहितमतिः पापकर्मवर्जी स्यादिति । केचित्तु परीषदर्लानता नीयन्त इति दर्शयितुमाह--
“आहारोवचया देहा परीसहपभंगुरा पासह एगे सविदिएहि परिगिलायमाणेहिं" 'आहारो' इत्यादि-आहारोपचया देहाः परीषदभराः, अत एव पश्यत यूयम् । एके कातराः सर्वेन्द्रियग्लायमानः क्लीयतामियुः । केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद्, आस्तां तावदपरः प्रकृतिभङ्गुरशरीर इति । परीपह
JI १९६॥