SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १९३॥ REARSHA है साधुनिमित्त कृतं निषेध नीय, प्रासुकदानफलप्ररूपणं च। MESSASS RSHASSAGAR से भिक्खु ' मित्यादि-तं भिक्षु क्वचित् श्मशानादौ विहरन्तमुपसंक्रम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदात्मगतया प्रेक्षयाऽनाविष्कृताभिप्रायः केनचिदऽलक्ष्यमाणो यथाऽहमस्य दास्यामीत्यशनादिकं प्राण्युपमर्दनारमेत। किमथेमारम्यत इत्याह-तमशनादिकं भिक्षु परिघासयितुं भोजयितुं, आवसथं च साधुभिरधिवासयितुमिति । तदशनादिकं साध्वर्थ निष्पादितं भिक्षुः 'जानीयात् '-परिच्छिन्द्यात् । कथमित्याह-'सहसम्मइए'-इत्यादि-' स्वसन्मत्या' परव्याकरणेन वा तीर्थकरोपदिष्टोपायेन वा, अन्येभ्यो वा तत्परिजनादिभ्यः श्रुत्वा जानीयात् । यथाऽयं खलु गृहपतिर्मदर्थमशनादिकं प्राण्युपमन विधाय मह्यं ददाति, आवसथं च समुच्छृणोति । तद् भिक्षुः सम्यक् प्रत्युत्पेक्ष्य-पर्यालोच्यावगम्य च ज्ञात्वा 'ज्ञापयेत्'-तं गृहपतिमनासेवनया, यथाऽनेन विधानेनोपकल्पितमाहारादिकं नाऽहं भुञ्ज, एवं तस्य ज्ञापनं कुर्याद् । यद्यसौ श्रावकस्ततो लेशतः पिण्डनियुक्तिं कथयेद् , अन्यस्य च प्रकृतिभद्रकस्योद्गमादिदोषानाविर्भावयेत् । प्रासुकदानफलं च प्ररूपयेत् , यथाशक्तितो धर्मकथां च कुर्यात् । इतिरधिकारसमाप्तौ ब्रवीमीति पूर्वोक्तं, वक्ष्यमाणं चेत्याह “भिक्खं च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा वा फुसंति, से हंता हणह खणह छिदह दहह पयह आलुपह विलुपइ सहसाकारेह विष्परामुसह, ते फासे धीरो पुट्ठो अहियासए, अदुवा आयारगोयरमाइक्खे, तकियाणमणेलिसं अदुवा वइगुत्तीए गोयरस्स अणुपुग्वेण संमं पडिलेहए आयगुत्ते बुद्धेहिं एवं पवेइयं” 'भिक्खं चे 'त्यादि-भिक्षु दृष्ट्वा कश्चिद् यथा भो भिक्षो! भवदर्थमशनादिकमावसथं वा करिष्ये । अननुज्ञापितोऽपि तेनाऽसौ तत्करोति । अवश्यं चाटुभिर्बलात्कारेण वा ग्राहयिष्यते । अपरस्त्वीपत्साध्वाचारविधिज्ञोऽतोऽपृष्ट्वैव छबना
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy