________________
माचाराङ्ग पत्रदीपिका अ०८
उद्देशः१ एकान्तवादिनां धर्मप्ररूपणाऽसत्येति ।
॥१८८॥
कश्चित्प्रव्रज्यात । तथा साति वा । एवमतपना विप्रालयको नास्ति
दितिः, दितिरसुराणां, मनुर्मनुष्याणां, विहङ्गानां विनता विश्वप्रकाराणां माता, कद्रुः सरीसृपानां, सुलसा नागजातीनां सुरमिश्चतुष्पदाना, इला सर्वबीजानामित्यादि । अपरेऽनादिको लोकोऽनवदग्रोऽयं संसारः, तथा सपर्यवसितो लोक, जगप्रलये सर्वस्य विनाशसम्भवात् । तथापर्यवसितो लोकः, सतः आत्यन्तिकविनाशासंभवात् , इत्येवं परमार्थमजानाना अस्तीत्यादि लोकं विवदमानाः प्रभृता वाचो नियुञ्जन्ति । तथाऽऽत्मानं प्रति विवदन्ते, 'सुकडे त्ति वा-सुकृतं दुःकृतं इत्येवं क्रियावादिनः संप्रतिपद्यन्ते, तथा सुष्टु कृतं यत्सङ्गपरित्यागतो महाव्रतमग्राहि । अपरे दुःकृतं भवता, यदसौ मुग्धमृगलोचना पुत्रमनुत्पाद्योज्झितेति । तथा य एव कश्चित्प्रव्रज्योद्यतः कल्याण इत्येवममिहितः, स एवापरेण पाखण्डिकविप्रलब्धः क्लीबोऽयं गृहाश्रमपालनासमर्थोऽनपत्यः पाप इत्येवमभिधीयते । तथा साधुरिति वा असाधुरिति वा स्वमतिविकल्पितरुचिभिरभिधीयते । तथा सिद्धिरिति वा असिद्धिरिति वानरक इति वा अनरक इति वा । एवमन्यदल्याश्रित्य स्वाग्रहग्रहिणो विवदन्त इति दर्शयति-'विप्पडिवना' इत्यादि-पूर्वोक्तं लोकादिकं तदिदमाश्रित्य विविधं प्रतिपन्ना विप्रतिपन्नाः। केचिदीश्वर प्रेरितमिति वदन्ति, मामकं-आत्मीयात्मकं धर्म प्रज्ञापयन्ति । 'इत्थवि' इत्यादि-अत्राप्यस्ति लोको नास्ति वा इति अकसात् अकस्मादिति हेतोरमावात् । ‘एवं तेसिं 'ति-एवमुक्तनीत्या तेषामेकान्तवादिनां न स्वाख्यातो धर्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो भवति । किम्भूतस्तहिं सुप्रज्ञापितो धर्मों भवतीत्याह
" से जहेयं भगवया पवेइयं बासुपन्मेण जाणया पासया अदुवा गुत्ती वयोगोयरस्सत्ति बेमि, सम्वत्य संमयं पावं, तमेव उवाइसम्म एस महं विवेगे वियाहिए, गामे वा अदुवा रण्णे नेव गामे नेव रत्ने धम्ममायाणह पवेइयं माहणेण मइमया, जामा
486
१८८॥