________________
१७७॥
वाह्यक्रियासहिताना मन्दाना दोषदर्शनम्।
दृशानां द्वेषात् अपह्नुते । यथैते कुशीलाः इत्येवमनुबदतः-अनु पश्चात् पृष्टतोऽनुवदतः पार्श्वस्थादेर्द्वितीयैषा मन्दस्य चालतामूर्खता, एका तावत्स्वतश्चारित्रापगमः, पुनरपरान् उद्युक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता । अपरे च वीर्यान्तरायोदयात्स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विताः, यथावस्थितमाचारगोचरमावदेयुरिति दर्शयति
“नियट्टमाणा वेगे आयारगोयरमाइक्खंति, नाणभट्ठा दसणसिणो" 'नियट्टमाण 'इत्यादि-एके कर्मोदयात्संयमान्निवर्तमाना यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णा, आचारस्त्वेवम्भृतः, इत्येवं वदतां तेषां द्वितीया बालता न भवति । किम्भूता बालाः पुनरेवं समर्थयेयुरित्याह-'णाणभट्ठा'सदसद्विवेको ज्ञानं तस्माद् भ्रष्टाः 'दसणलूसिणो'-सम्यग्दर्शनप्रध्वंसिनः। अपरे पुनर्बाह्यक्रि योपपेता अध्यात्मानं नाशयन्तीत्याह
"नममाणा वेगे जीवियं विप्परिणामंति पुट्ठा वेगे नियटुंति जीवियस्सेव कारणा, निक्खंतंपि तेसिं दुनिक्खंतं भवइ, बालवय. णिज्जा हु ते नरा, पुणो पुणो जाई पकम्पिति अहे संभवंता विहायमाणा अहमंसीति विउक्कसे उदासीणे फरुसं वयंति, पलियं पकथे अदुवा पकथे अतहेहि, तं वा मेहावी जाणिज्जा धम्म "
नममाणा' इत्यादि-नमन्तोऽप्याचार्यादेः कर्मोदयाद् एकेन सर्वे संयमजीवितं विपरिणामयन्ति-अपनयन्ति । किं | चापरमित्याह- एके- अपरिकम्मितमतयो गौरवत्रिकप्रतिबद्धाः स्पृष्टाः परीषहै निवर्तन्ते संयमाद् लिङ्गाद्वा । किमर्थ ? 'जीवियस्सति'- जीवितस्यैवाऽसंयमाख्यस्य कारणानिमित्तात् , सुखेन वयं जीविष्याम इति कृत्वा सावद्यानुष्ठानतया संयमानिवन्ते । तथाभूतानां च यत्स्याचदाह-तेषां गृहवासानिष्क्रान्तमपि ज्ञानादिगुणान्यतरोपघाताद् दुनिष्क्रान्तं भवति।
SAGACASSASSASAKC
।१७७॥