________________
॥ १७३ ॥
ね
एवमित्यचेलतया पर्युषितानां तृणादिस्पर्शान् अधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिकारकाणां 'चिररायं 'चित्रं पावजीवं पूर्वाणि - प्रभूतानि वर्षाणि रीयमाणानां - संयमानुष्ठाने गच्छतां ' द्रव्याणां ' - भव्यानां मुक्तिगमनपश्यावधारय । तृणस्पर्शादिकमभिहितं तदभिषोढव्यम् । एतच्चाधिसहमानानां यत्स्यात्तदाह
" आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विम्सेणि कट्टु परिन्नाय, एस तिण्णे मुत्ते विरए वियाहिति बेमि "
' आगयमि 'त्यादि - आगतं प्रज्ञानं पदार्थाविर्भावकं येषां ते तथा, तेषां तपसा कशा बाहवो - भुजा भवन्ति । प्रतनुके ' - प्रतले मांसशाणिते भवतः । तथा ' विस्सेणि- संसार श्रेणी- संसारावतरणी रागद्वेषकषायसन्ततिस्तां श्रान्त्यादिना विश्रेणीं कृत्वा तथा परिज्ञाय - ज्ञात्वा समत्वभावनया, एष उक्तलक्षणो मुनिस्तीर्णः मुक्तो विश्तो व्याख्यात इति ब्रवीमीति पूर्ववत् ।
“ विरयं भिक्खु रीयंतं चिरराओसियं अरई तत्थ किं विधारए १, संघेमाणे समुट्ठिए, जहा से दीवे असंदीणे एवं से घम्मे आरियपदेसिए, ते अणवकखमाणा पाणे अणइवाएमाणा दइया मेहाविणो पंडिया, एवं तेसिं भगवओ अणुट्ठाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अणुपुब्वेण बाइयत्ति बेमि ॥ ६-३
उ० ३
लाघवताभाजो -
नयः सं
सारं तीर्णा इति ।
'विश्य 'मित्यादि - विरतमसंयमात् भिक्षणशीलं भिक्षु रीयन्तं - रीयमाणं निस्सरन्तमप्रशस्तसंयमस्थानेभ्यः, प्रशस्तेषु प्रवर्त्तमानं चिररात्रं- प्रभूतकालं संयमे उषितश्चिररात्रौ उषितस्तमेवंगुणयुक्तं, ''अरति: ' संयमोद्विग्नता ' तत्र ' तस्मिन् ॥ १७३ ॥