SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्री बाचाराङ्गसूत्रदीपिका - १७२ ।। सन्धास्यामि - पाटितं सेविष्यामि, लघुवाससोऽपरशकललगनतो उत्कर्षयिष्यामि, दीर्घवासखण्डापनयतो व्युत्कर्षयिष्यामि, एवं च कृते परिधास्यामि तथा प्रावरिष्यामि इत्याद्यार्त्तध्यानं न भवति । तस्य चाऽचेलस्य अल्पचेलस्य वा तृणादिस्पर्शसद्भावे यद् विधेयं तदाह-' अदुवा तत्थे 'त्यादि - अथवा एतत् स्यात् तत्राऽचेलत्वे पराक्रममाणं पुनस्तं साधुमचेलं कचिद्ग्रामादौ त्वक्त्राणाभावात् तृणशय्याशायिनं तृणानां स्पर्शाः परुषाः तृणस्पर्शास्ते कदाचित् स्पृशन्ति तांश्चादीनमनस्कः सम्यगसिहते, श्रीतस्पर्शाः तेजस्पर्शाः उष्णस्पर्शाः स्पृशन्ति, एवं दंशमशक्रस्पर्शाथ । ' एगयरे 'ति एतेषां परपहाणानितरे विरुद्धा दंशमशकादयः प्रादुर्भवेयुः । शीतोष्णादिपरीषहाणां वा परस्परविरुद्धानामन्यतरे प्रादुष्ट्युः, ' विरूवरूवेहिं 'विरू मरूपाः स्पर्शाः दुःखविशेषास्तान् सम्यक्करणेनापध्यानरहितोऽघिसहेत । कोऽसौ १ अचेलो निर्वस्रः । किममिसन्ध्य सहते - ' लाघवं ' लघोर्मावो लाघवं द्रव्यतः भावसथ, द्रव्यत उपकरणलाघवं भावतः कर्म्मलाघवं तमागमयन्- बुद्ध्यमानः परीषहोपसर्गान्सहते । ' तवे से ' इत्यादि से-तस्य उपकरणलाघवेन कर्म्मलाघवमागमयतः कर्म्मलाघवेन चोपकरणलाघवमागमयतस्तृणादिस्पर्शानधिसहमानस्य तपः कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति, सम्यग् आभिमुख्येन सोढं भवति । ' जहेयं भगवता 'ति-यथा येन प्रकारेणेदं यदुक्तं वक्ष्यमाणं चैतद् भगवता वर्द्धमानस्वामिना प्रवेदितम् ॥ ' तमेवे ' त्यादि, तत्-उपकरणलाघवमाहारलाघवं चाभिसमेत्य-ज्ञात्वा सर्वतः इति-द्रव्यतः क्षेत्रतः कालतः भावतथ, द्रव्यत आहारोपकरणादौ, क्षेत्रतः सर्वग्रामादौ, कालतोऽहनि रात्रौ वा दुर्भिक्षादौ वा, सर्वात्मनेति, भावतः कृत्रिमकल्काद्यभावेन, 'समतमेव सममिजाणिया ' - सम्यक्त्वमेव सम्यगऽभिजानीयात्, तीर्थंकरगणधरोपदेशात्सम्यक्कुर्यादिति । ' एवं तेसि 'मित्यादि ॥ १७२ ॥ 131 उ० ३ उपकरणशरीरलाघबता बाहा तप इति ।
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy