________________
भी
खाचाराङ्ग
दीपिका
म० ६
॥ १६६ ॥
' तं परिकमंत ' मित्यादि - तं अवगततवं गृहवासात् पराङ्मुखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितृकलत्रादयः परिदेवमाना आक्रन्दं कुर्वन्तः, 'छन्दोपनीताः ' - तवाभिप्रायानुवर्त्तिनः स्म, ' अध्युपपन्नाः ' त्वां विना न जीवामः, आक्रन्दकारिणः जनकाः - पित्रादयो रुदन्ति । तत्र मुनिः कीदृशो भवति १, ' अतारिसे - न तादृशोऽतादृशः, स एव मुनिः ‘ ओघं तरइ '- संसाराम्भोधिलब्धपारः, येन जनकाः विष्पजढा ' - त्यक्ताः । एवं जानाति - एनं बन्धुवर्ग मम शरणं नैव समेति । यस्तु ' किह णाम - किञ्चिन्नामा तेषां वचसि रमते शूरस्तु नैव रमते । एतत्पूर्वोक्तं ज्ञानं सदा आत्मनि समनुवासयेदिति व्यवस्थापयेदात्मनि ॥ धृताध्ययने प्रथमोद्देशकः समाप्तः ॥ १ ॥
" आउरं लोगमायाए चइत्ता पुब्वसंजोगं हिचा उवसमं वसित्ता बंभचेरंसि वसु वा अणुवसु वा जाणित्तु धम्मं जहा तहा अहेगे तमचाई कुसीला "
' आउर 'मित्यादि - आतुरं कामभोगातुरं लोकं मातापितृकलत्रादिकं आदाय, ज्ञानेन परिगृहीत्वा परिच्छिद्य - त्यक्त्वा च पूर्वसंयोगं हित्वा गत्वोपशमं उषित्वा ब्रह्मचर्ये किम्भूतः सन् १ 'वसुव 'त्ति-वसुः सुसाधुः 'अनुवभुः ' श्रावकः, तदुक्तं - वीतरागो वसुर्ज्ञेयो, जिनो वा संयतोऽथवा । सरागो धनुवसुः प्रोक्तः स्थविरः श्रावकोऽपि वा ॥ १ ॥ ' जाणित्तु ' चि ज्ञात्वा 'धर्म' श्रुतचारित्रारव्यं यथा तथाऽवस्थितं ' अहेग 'ति - अथैके भवितव्यतानियोगेन धर्मं प्रतिपद्य च पालयितुं न शक्नुवन्ति । किंविधास्ते ', ' कुशीलाः ' अनाचारप्रवर्तिनः । एवम्भूताः किं कुर्युरित्याह
" वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्जा, अणुपुब्वेण अणहिया सेमाणा परीसहे दूरहियासए, कामे ममायमाणस्स इयाणि
उ०२
पित्रादि
शोकेऽपि
भवस्वरूप
ज्ञाता
संसारे न
तिष्ठति ।
।। १६६ ।।