SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ भी श्राचाराङ्गदीपिका अ० ६ ॥ १६० ॥ कृदेव कथयति । उतान्योऽपि विशिष्टज्ञानवान् धम्र्माविर्भावनं करोतीति १, दर्शयितुमाह-' जस्सिमाउ 'चि-यस्यास्तीन्द्रियज्ञानिनः श्रुतधरस्य वा इमा जातय एकेन्द्रियादिकाः ' सबउ 'चि सर्वैः प्रकारैः सूक्ष्मादिभेदैः 'सुपडिलेहिय 'चि- सुष्ठु शङ्कादिनिराकरणेन प्रत्युपेक्षिता ज्ञाता भवन्ति स धर्म्ममाचष्टे, नापरः । इदमेवाह - ' आघाइ से ' ति आख्याति कथयति स च तीर्थकृत्सामान्य केवली वा । किमाख्याति १' णाण ' इत्यादि-ज्ञानं पञ्चधा मत्यादि, किम्भूतं १ ' अणेलिसं '-अनीदृशं नान्यत्रे दृशमस्तीत्यनीदृशमाख्याति । केषामये धर्म्ममाचष्टे १' से किरद्द - स तीर्थकद्गणभृदादिः कीर्त्तयति यथावस्थितान् भावान् तेषां धर्म्मचरणाय सम्यगुत्थितानाम् । यदिवा उत्थिताः- द्रव्यतो भावतय, द्रव्यतः शरीरेण भावतो ज्ञानादिभिः। तत्र स्रियः समवसरणस्था उभयथाप्युत्थिताः शृण्वन्ति, पुरुषास्तु द्रव्यतो भाज्याः । भावोत्थितानां तु धर्ममावेदयति, अनुत्थितानामग्रेऽपि तथैवाचष्टे । किम्भूतानां भावोत्थितानां १, ' निक्खित्तदंडाणं 'ति - निक्षिप्तदण्डानां प्राण्युपमईरहितानां 'समाहितानां - तपःसंयमे सावधानानां प्रज्ञामतां इहास्मिन्मनुष्यलोके मुक्तिमाग्गं ज्ञानाद्यात्मकं कीर्त्तयति । ' एवमप्येके ' महावीरा लघुकर्माणः विविधं संयम संग्रामशिरसि पराक्रमन्ते । एतद्विपरीतान् पश्यत यूयं किम्भूतान् ? ' अपने ' - नात्मने हिता प्रज्ञा येषां ते नात्मप्रञ्चास्तान् । कुतः पुनः संयमेऽवसीदन्ति १ इत्यारेकायां सोऽहं ब्रवीमि । अत्र दृष्टान्तद्वारेण सोपपत्तिकं कारणमाह-'से जहा वि' इत्यादि से इति स इति तच्छब्दार्थे, अपिशब्दशार्थे, स च वाक्योपन्यासार्थः, तद्यथा च कूम्र्म्मो महादे विनिविष्टं चितं यस्याऽसौ विनिविष्टचित्तो गामुपगतः पलाशैः पत्रैः प्रच्छन्नः ' उम्मग्गं 'तिविवरं उन्मज्यतेऽनेनेति चोन्मज्जनं उर्द्ध वा मार्ग्यमुन्मार्ग सर्वथा विवरं रन्धं तदसौ न लभते इत्यक्षरार्थो भावार्थस्त्वयं ॐ० १ अनात्म प्रज्ञानां संसारपरिभ्रमणम् । १६० ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy