________________
॥१९॥
कर्मदृष्टान्तकथनम् ।
यथा कश्चिद् इदो योजनशतसहसविस्तीर्णः पलाशप्रबलशैवलाच्छादितः नानारूपकरिमकरमत्स्यकच्छपादिजलचराश्रयः, तन्मध्ये चैकं विश्रसापरिणामापादितं कच्छपग्रीवाप्रमाणं विवरं, तत्रैकेन कूर्मेण निजयूथात्प्रभ्रष्टेन वियोगाकुलतया इतश्चेतच ग्रीवां प्रक्षिपता कुतश्चिद् भवितव्यतानियोगेन तदु रन्ध्र प्राप्तं तत्र चासौ शरच्चन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभित ग्रहगणानेकतारकाकीर्ण नभस्तलमीक्षांचक्रे, दृष्ट्वा चातीव मुमुदे, आसीच्चास्य मनसि यदि तानि मग्याणि पश्यन्ति, तदा चारूतरं स्यात् । शेष सुगम, दृशदृष्टान्तमध्ये कूभदृष्टान्तादवसेयम् । अस्यायमर्थोपनयः-संसारइदे जीवकूमः, कर्मशैवलविवरं-आर्यक्षेत्रसुकुलोत्पत्यादिकं मनुष्यावतारः, शेषं पूर्ववत् । तस्मादऽवाप्य भवशतदुरापं सम्यक्त्वं, क्षणमेकं तत्र प्रमादवता न भाव्यम् । पुनरप्याह-' मंजग' इत्यादि-भंजगा- वृक्षास्त इव शीतोष्णप्रकम्पनछेदनशाखाकर्षणमोटनमञ्जनरूपानुपद्रवान् सहमाना अपि सन्निवेशं-स्थानं कर्मपरतया न त्यजन्ति, एवं ' एगे' इत्यादि-एवं वृक्षोपमया एके कर्मगुरवोऽनेकरूपेषु उच्चावच्चेषु कुलेषु जाता धर्मचरणयोग्या अपि रूपेषु चक्षुरिन्द्रियानुकूलेषु उपलक्षणात् । शब्दादिषु विषयेषु सक्ताः शारीरमानसदुःखिता राजोपद्रवोपद्रुता अग्निदाघदग्धसर्वस्वा नानादुःखोत्कीर्णमपि गृहवासं त्यक्तुमसमर्थाः । अपितु तत्स्था एव तेषु तेषु व्यसनोपनिपातेषु सत्सु ' करुणं ' स्तनन्ति-दीनमाक्रोशन्ति निदानतस्ते मोक्षं न लभन्ते, मोक्षं-दुःखापगमम् । दुःखविमोक्षाभावे च यथा नानाव्याधिव्याप्ताः संसारोदरे प्राणिनो वर्त्तन्ते । तदर्शयितुमाह- अह पास तेहि 'मित्यादि-अथेत्यनन्तरं ' से 'ति-स प्राणी ते प्राणिनो वा, तेषूच्चाबच्चेषु कुलेषु आत्मत्वाय-आत्मीयकर्मानुभवाय जाता उत्पन्नास्तदुदयाचेमामवस्थामनुभवन्तीत्यादि, षोडशरोगवक्तव्यतानुगतं श्लोकप्रयं-तत्र वातपित्तप्लेष्मसनिपातजं चतुर्धा गण्डं, तदस्यास्तीति गण्डी-गण्डमालावान् । १।, तथा कुष्ठी-कुष्ठमष्टादशमेद
COCCCCASACROCRACCA
2॥१६१।।