________________
E
बाचाराङ्ग
एचदीपिका
RSSION
पुनः पुनरुपदेशदाने कि? कारणमिति सूचनम्।
॥५६॥
किम्भूत इत्याह- 'णिट्ठियट्ठी' इत्यादि-निष्टितो- मोक्षस्तेनार्थी, वीरः कर्मविदारणसमर्थः, 'आगमेन'- सर्वज्ञप्रणी. तेनाचारादिना 'सदा'-सर्वकालं पराक्रमेथा:- कर्मशत्रून् प्रति मोक्षाध्वनि वा गच्छेत् । इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् । किमर्थ पौनःपुन्येनोपदेशदानमित्याह
“ उडे सोया अहे सोया, तिरिय सोया वियाहिया । एए सोया विअक्खाया जेहिं संगति पासहा ॥ १३ ॥" . 'उद्यमित्यादि-श्रोतांसि-काश्रवद्वाराणि, तानि च पूर्वभवाम्यासाद् विषयानुबन्धीनि गृह्यन्ते, तत्रोद्ध श्रोतांसिवैमानिकाङ्गनाभिलाषेच्छा वैमानिकसुखनिदानं वा । अधो भवनपतिसुखाभिलाषिता । तिर्यग्-व्यन्तरमनुष्यतिर्यग्विषयेच्छा। यदिवा उर्द्ध गिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनि, अधोऽपि नदीकूलगुहालयादीनि, तिर्यगप्यारामसभाऽऽवसथादीनि, प्राणिनां विषयोपभोगस्थानानि विविधमाहितानि स्वकर्मपरिणत्या जनितानि । एतानि कर्माश्रवद्वाराणीति कृत्वा एभिः प्रकारैः पापोपादानभूतैयः सङ्गं-कर्मानुषङ्गं पश्यत । अत आगमेन सदा पराक्रमेथाः। किन___“पावट्टं तु उवेहाए इत्थ विरमिज वेयवी, विणइत्तु सोयं निक्खम्म एसमहं अकम्मा जाणइ पासइ पडिलेहाए नावकंखइ | इह आगई गई परिमाय" ___ 'आवट्ट' मित्यादि-आवर्त रागद्वेषविषयावर्ग, तुशब्दः पुनःशब्दाथे, भावावचं पुनरुत्प्रेक्ष्यावास्मिन् भावावर्षे वेदविद्-आगमविद् विरमेद्-आश्रवद्वारनिरोधं कुर्यात् । “विणइत्तु 'त्ति-विनयेत्- अपनयेत् श्रोत:- आश्रवद्वार, तद् विनेतुं निःक्रम्य-प्रव्रज्य, 'एस इत्यादि-एष इति प्रत्यक्षो यः कश्चन महापुरुषः आतिशायिककर्मविधायी 'अका' नास्य
ACA
॥ १५६ ॥
644