________________
॥१५५॥
उ०६. सर्वज्ञोपदेशज्ञानकरणोपायप्रदर्शनम्।
एणे 'त्यादि-महान् ' महापुरुषो लपवम्भूतभावनायाः समान
CASSACROSAUGAR
'अभिभूयेत्यादि'- अभिभूय-पराजित्य परीषहोपसर्गान् तत्त्वमद्राक्षीत् । किश्च- 'अणभिभूय ' इत्यादि-न अमिभृतोऽनभिभूतः परीषहादिकुतीधिकैश्च, एवम्भूतः प्रभुः- समर्थो, निरालम्बनताया:- नात्र संसारे मातापितकलत्रादिकमालम्बनमस्तीति तीर्थकृदननमन्तरेण नरकादौ पततामित्येवम्भूतभावनायाः समर्थो भवति । कः पुनरेवमित्याह- 'जे महं' इत्यादि- यः पुरस्कृतमोक्षो 'महान् ' महापुरुषो लघुकर्मा सर्वज्ञोपदेशवर्ती अबहिर्मनाः। कुतः शुभस्तदुपदेशनिश्चय इत्याह- 'पवाएणे'त्यादि-प्रवादेनाचार्यपारम्पर्योपदेशेन सर्वज्ञोपदेशं जानीयात् । पुनः कथं जानीयाद ? 'सहसम्मइयाए'-सन्मत्या, स्वपरावभासकत्वात्सन्मतेः, 'परवागरणेण'- कदाचित्परव्याकरणेनापि जानीयात् । अन्नेसिं वाअन्येषामप्याचार्यादीनामन्ति के श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेत् । अवधार्य न किं ? कुर्यादित्याह
निदेसं नाइवट्टेजा मेहावी सुपडिलेहिय सवओ सव्वप्पणा सम्मं समभिजाणिया, इह आराम परिणाय अल्लीणे गुत्ते परिव्वए निहियट्ठी वीरे आगमेण सया परकमेज्जासित्ति बेमि " ॥
'निद्देस 'मित्यादि-निर्देशस्तीर्थकरायुपदेशस्तं नातिवर्चते मेधावी- मर्यादावान् । किं कृत्वेत्याह-'सुपडिलेहिय' चि-सुष्टु प्रत्युत्प्रेक्ष्य हेयोपादेयतया कुतीर्थिकवादान् , सर्वज्ञवादं च 'सर्वत:'-सर्वैः प्रकारेव्यक्षेत्रकालभावरूपैरात्मादीन् पदार्थान् पर्यालोच्य सहसन्मत्यादित्रिकेण परिच्छिद्य, 'सम्मं समभिजाणिय 'त्ति-सम्यगेव स्वपरतीथिकवादान् 'समभिज्ञाय'- बुद्ध्वा ततोऽपि परतीर्थिकप्रवादनिराकरणं कुर्यात् । किश्च- 'इहारामं परिण्णाय' इत्यादि-इहास्मिन् मनुष्यलोके आरमणमारामो- रदिरित्यर्थः, स चारामः संयमस्तं परिज्ञाय आलीनो गुप्तश्च परिव्रजेत्- संयमानुष्ठाने विहरेत् ।
KARASHRECASHESARSHAS
१५५॥