SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ भी बाचारागखदीपिका ब०५ ॥५४॥ USA AUSA "अणाणाए एगे सोवट्ठाणा आणाए एगे निरुवहाणा, एयं ते मा होउ, एयं कुसळस्स दसणं, तरिहीए तम्मुत्तीए तप्पुरबारे तस्सन्नी तन्निवेसणे" दोषदरी_ 'अणाणाए' इत्यादि-अनाज्ञा तीर्थकरानुपदेशः स्वमनीषिकाचरितोऽनाचारस्तया अनाज्ञया, तस्यां वा, एके-इन्द्रिय करणार्य वशवर्तिनो दुर्गति जिगमिषवः स्वाभिमानग्रस्ताः सह उपस्थानेन-धर्माचरणाभासेन वर्तन्ते इति सोपस्थानाः, किल वय सदा तथामपि प्रव्रजिताः, सदसद्धर्मविवेकविकलाः सावद्यारम्भतया परिवर्त्तन्ते । 'आणाए. निरुवट्ठाणा' इत्यादि-एके तु न विधाचाकुमार्गवासितान्तःकरणाः किं त्वालस्याापवृंहितमतयः, आज्ञायां-तीर्थकरप्रणीते सदाचारे निर्गतमुपस्थानमुद्यमो येषां निरुप-| बायां - स्थानाः-भगवत्प्रणीताचारविकलाः । एतत्कुमार्गाचरणं सन्मार्गावसीदनं च द्वयमपि ते-तव विनयोपगतस्य दुर्गतिहेतुत्वान्मा वितव्यम्। भूदिति सुधर्मास्वामी स्वमनीषिकापरिहारार्थमाह- 'एयं कुसलस्स दसणं'- एतत्- अनाज्ञायां निरुपस्थानत्वं आज्ञायां सोपस्थानत्वं कुशलस्य-त्रैलोक्यस्वामिनो दर्शनं, कुमार्ग परित्यज्य सदाऽऽचार्यान्तेवासिना एवम्भूतेन भाव्यम् । 'तद्दिडीए'तस्य श्रीजिनाज्ञाकर्तृराचार्यस्य दृष्टिस्तदृष्टिस्तया वर्जितव्यं, तस्याचार्यस्य मुक्तिस्तया वर्तितव्यं, तमाचार्य सर्वकार्येषु पुरः करोतीति तत्पुरस्कारः तन्मत्या क्रियानुष्ठायी, 'तस्सन्नी'- तत्संज्ञी तत्संज्ञायां वर्त्तते इति तत्संज्ञी, तनिवेशन:- सदा गुरुकुलवासी । स एवम्भूतः किं गुणः स्यादित्याह “अभिभूय अदक्खू अणभिभूए पभू निरालंबणयाए जे महं अबहिमणे, पवारण पवाय जाणिज्जा, सहसंमइयाए परवागरणेणं भन्नेसि वा अंतिए सुचा" ॥ MIT१५४॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy