________________
नीवज्ञानयोरभित्र तासूचनम्।
AASARASWACHE
संवेदण 'ति- अनु- पश्चात् संवेदनं केन ? आत्मना, यत्परेषां मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते, तत्पश्चादा| त्मना संवेद्यमिति ज्ञात्वा यत् किमपि हन्तव्यमिति चिकीर्षितं, तन्नाभिप्रार्थयेत्- नाभिलषेत् । ननु च संवेदनं सातासातरूपं तद् आत्मनो ज्ञानेन भिन्नाभिन्नेन वा मवति ? इत्यस्य प्रतिवचनमाह
"जे आया से विनाया, जे विनाया से आया, जेण वियाणइ से आया, तं पडुच पडिसंखाए, एस बायावाई समियार परियाए वियाहिएति बेमि" ॥ लोगसारे पंचमोदेसो।
'जे आया' इत्यादि-य आत्मा नित्य उपयोगलक्षणः, विज्ञाताप्यसावेव । न तु पुनः तस्मादात्मनो मित्रं ज्ञानं पदार्थसंवेदकम् । 'जे विनाया' इत्यादि-यश्च विज्ञाता पदार्थानां परिच्छेदकः स एव नित्योपयोगलक्षण आत्मा एव । 'जेण वियाणइ'-येन मत्यादिज्ञानेन सामान्यविशेषाकारतया वस्तु जानाति विजानाति असौ आत्मा, न तस्मादात्मनो भिमं ज्ञानं विद्यते । ज्ञानात्मनोश्चैकत्वे यद् भवति तदाह-तं पडुच्च पडिसंखाए 'ति-तं ज्ञानपरिणाम प्रतीत्य-आश्रित्यात्मा तेनैव प्रतिसंख्यायते-व्यपदिश्यते, यथा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानी । यश्च ज्ञानात्मनोरेकत्वं मन्यते स किंगुणः स्यादित्याह-'एस आयावाई' इत्यादि-एषः अनन्तरोक्तया: नीत्या यथावस्थितात्मवादी स्यात् , तस्य च सम्यग्भावेन शमितया वा 'पर्यायः'-संयमानुष्ठानरूपो व्याख्यातः । इति ब्रवीमि ॥ पंचमोद्देशकः समाप्तः॥
अथ षष्ठोद्देशकः प्रारम्यते । इहानन्तरोद्देशके इदोपमेनाचार्येण माव्यमित्येतदुक्तम् । तथाभूताचार्यसम्पर्काच मार्गपरित्यागो भवति, इत्युदेशकादिस्त्रम्-.
RAHASRANGACASHASHANGA