________________
.
C
बाचारागपत्रदीपिका
| उद्देशः५
विनेय| स्वरूप प्रदर्शनम्।
॥१४८॥
तत्पश्य-अवलोकय । आचार्यव्यतिरेकेण एवंविधा बहवः सन्ति । 'पास लोए"ति-इह मनुष्यलोके पूर्वोक्तस्वरूपा महर्षयो महामुनयः सन्तीत्येतत्पश्य, किम्भूतास्ते ', 'जे य पन्नाणमंतत्ति'-ये च प्रज्ञानमन्तः परमोत्कृष्टज्ञानयुक्ता आगमस्य वेचारः, पुनः किम्भूताः, प्रबुद्धाः, पुनः किम्भूताः आरंभोपरताः। 'सम्ममेय'ति-एतन्मयोक्तं संम-माध्यस्थ्यं भूत्वा यूयं पश्यत । 'कालस्स'-कालं समाधिमरणकालस्तदभिकांक्षया साधवो मोक्षाध्वनि संयमे परिसमन्ताद् बजन्ति उद्यच्छन्ति । इतिरधिकारसमाप्तौ ब्रवीमीति एतत्प्रकरणपरिसमाप्तौ द्रष्टव्यमिति । आचार्याधिकारमुच्या विनेयवक्तव्यतामाह___वितिगिच्छसमावनेणं अप्पाणेणं नो लहइ समाहि, सिया वेगे अणुगच्छंति असिता वेगे अनुगच्छंति, अणु गच्छमाणेहि अणणुगच्छमाणे फहं न निम्बिजे?".
'वितिगिच्छ' इत्यादि-विचिकित्सा-या चितविप्लुतिस्ता 'समावनेणं' समापने-समुत्पन्नेऽप्यर्थे मतिविप्रमो मोहो. दयाद् भवति, तथाऽस्य महतस्तपसः सिकताकणकवलनिःस्वादस्य स्यात् सफलता? न वेति', कृपीवलकरणादिक्रियावत् , एतादृशी मतिर्मिथ्यात्वोदयाद् भवति, ज्ञेयगहनत्वाच्च । तथाहि- अर्थस्त्रिविधः-सुखाधिगमो दुरधिगमोऽनधिगमश्च । सुखाधिगमो यथा-चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः, दुरधिगमस्तु अनिपुणस्य, अनधिगमस्त्वऽन्धस्य । तत्र सुखाधिगमो विचिकित्सारूप एव न भवति, अनधिगमोऽवस्त्वेव, दुरधिगमो देशकालस्वभावविप्रकृष्टस्तु विचिकित्सागोचरीभवति । तत्र धर्माधर्मादौ या विचिकित्सा तो समापनो समाधि न लमते । विचिकित्साकलुषितान्तःकरणो हि कथयतोऽप्याचार्यस्य सम्पस्वाख्यां बोधिं नामोति । यश्चामोति स गृहस्थो यतिर्वा इत्याह-'सिया वेगे अणुगच्छन्ति'-सिताः पुत्रकलत्रादिमोहेन बद्धाः,
न
॥ १४८॥
RE