________________
॥ १४७ ॥
ए' चि-अपि निश्चितं, मंगसमुच्चयार्थो वाऽपिशब्दः । ते च मङ्गाः । एको इदो परिगलत् श्रोताः, पर्यागलत्श्रोताच, शीटाशीतोदाप्रवाहइदवत् । १ । अपरस्तु परिगल स्रोताः नो पर्यागलत्श्रोताः पद्मइदवत् । २ । तथाऽपरो नो परिगउत्श्रोताः पर्यागल श्रोताथ, लवणोदधिवत् । ३ । अपरस्तु नो परिगल श्रोता: नो पर्यागल श्रोताच, मनुष्यलोकाद् बहिः समुद्रवत् । ४ । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात् । १ । साम्परायिककर्मापेक्षया तु द्वितीयमङ्गपतितः कषायोदयाभावेन ग्रहणाभावात् तपःकायोत्सर्गादिना क्षपणोपपत्तेश्च । २ । आलोचनामङ्गीकृत्य तृतीयमङ्गपतितः, आलोचनाया अप्रतिश्रावित्वात् । ३ । कुमार्ग प्रति चतुर्थभङ्गपतितः कुमार्गस्य हि प्रवेशनिर्गमाभावात् । ४ । इह प्रथमभपतितेनाधिकारः, तथाभूतस्यायं इददृष्टान्तः । स च इदो निर्मलजलप्रतिपूण्ण जलजैः सर्वर्तुजैरुपशोभितः, समे भूमागे विद्यमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपश्चान्तरजाः, नानाविधांस्तु यादसां गणान् रक्षन् तिष्ठति । तथाऽसौ आचार्योऽपि सर्वगुणाधारभूतोऽपि शीताशीतोदादवदऽवधार्यः । स चाचार्यः प्रथमभंगपतितः पश्वविधाचारसमन्वितोऽष्टविधाचार्यसम्पदुपेतः षट्त्रिंशत्गुणाधारो इदकल्पो निर्मलज्ञानप्रतिपूर्णः समे भूभागे रुयादिवर्जिते स्थाने तिष्ठतीत्यर्थः । किम्भूतः १, उपशान्तरजा:- उपशान्तमोहनीय इति । ' सारक्खमाणो 'ति षड्जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशतो नरकादिपाताद्वा । 'सोतमज्झ 'चि - श्रोतोमध्यगतः - श्रुतार्थदानग्रहणसद्भावात् श्रोतोमध्यगतत्वम् । स च किम्भूतः १, ' से पास' इत्यादि- स चाचार्योऽक्षोभ्यइदकल्पोऽवधारणीयो भवति । पुन किम्भूतः ?, 'सबओ 'चि सर्वतो इन्द्रियनोइंद्रियरूपतया गुप्या गुप्त इत्ये
उ०५
तद्दोषदूरीकरणार्थमा
चार्यसेवा
करणमाचा
र्यस्वरूपप्रदर्शनं च ।
॥ १४७ ॥