________________
बाचागङ्गपत्रदीपिका ब०५
॥१४०॥
CARRIORSHARE
इत्यादि-स च समन्वागतप्रज्ञानः-सम्यक्तया अन्वागतं क्रमागतं प्रज्ञानं पदार्थाविर्भावकं यस्यात्मनः स तथा । एवंविधे- II उ०३ नापि अकरणीयं पापकर्ममिति, तन्नो कदाचिदप्यन्विपति, परमार्थोपलब्धस्वरूपेणात्मना न सावद्यानुष्ठायी स्यादिति भावः। नैश्चयिक| सम्म' इत्यादि-यदिदं सम्यग्ज्ञानं सम्यक्त्वं वा तत् सहचरितं अनयोरेकत्र भावात् । ज्ञानग्रहणेऽपि सम्यक्त्वग्रहणं सम्यक्वज्ञेयं, यदिदं सम्यगज्ञानं सम्यक्त्वं वेत्येतत् पश्यत तन्मुनेर्भावो मौनं संयमानुष्ठानमित्येतत्पश्यत । यच्च मौनमित्येतत् पश्यत, मुनिभाव. तत्सम्यग्ज्ञानं नैश्चयिकसम्यक्त्वं वा पश्यत, सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थः। एतच्च न येन केनचिद् शक्य. योरेकतामनुष्ठातुमित्याह-'न इमं सक्क' मित्यादि-नैतत् सम्यक्त्वादित्रयं सम्यगनुष्ठातुं शक्यं, कै? शिथिलैः अल्पपरिणामतया | प्रदर्शनम्। मन्दवीर्यैः-संयमतपसोऽतिद्रढिमरहितैः । किम्भूतैः ?' अदिजमाणेहिं '-आद्रीयमानैः-पुत्रकलत्रादिस्नेहातिजलेनाद्रीयमानः स्नेहाकुलैरित्यर्थः । पुनः किम्भूतैः ? 'गुणासाएहिं '-गुणाः शब्दादयः, त एव स्वादो येषां ते गुणास्वादास्तैः तथा । पुनः किम्भूतैः ? 'वंकसमायारेहिं '-वक्रसमाचारैः-मायाविभिरित्यर्थः। किम्भूतैः- 'प्रमत्तेहिं '- प्रमत्तैः विषयकषायादिपञ्चलक्षणैः । आगारमावसद्भिः-सेवमानैः सावद्यारम्भार्जनपरैः एतादृशैमौनमनुष्ठातुमशक्यं, अशक्यमिति सर्वत्र योज्यम् । कथं तर्हि शक्यमित्याह-मुणी मोणमित्यादि-मुनितिरागो मौनं संयम समस्तारम्भवर्जनरूपं समादाय गृहीत्वा 'धुणे 'त्ति-धुनी।। यादपनयेदशरीरकमौदारिकं कर्मशरीरं वा । कथमन्त्य धुननमित्याह-पंतति'-प्रान्तं पर्युषितं वल्लचनकादि अल्पं वा, तदपि रूक्षं, विकृतेरभावात् तत्सेवन्ते तदम्यवहरन्ति, के? ते वीराः कर्मविदारिणः, किम्भूताः सम्यस्वदर्शिनः । यश्च प्रान्तरूक्षसेवी स किं गुणः स्यादित्याह-'एस ओहंतरे 'ति-एष एतादृशलक्षणः ओघ-भवौघं भवाम्बुधि तीर्णः। तीर्ण एवासौ । 3॥१४०॥
ECRUCRECIRRORSCARRICASA