________________
॥१३९ ॥
KAHASRANASANCS
यत्सम्यक्त्वं | तन्मौन
मिति सूत्रस्य व्याख्या।
|ति'-गर्भधाष्टये, असंयमं कृत्वा नैव प्रगल्भते, न धार्यमुपयाति, न धृष्टतामवलम्बते इत्यर्थः। किमालम्ब्यैतत्कुर्यादित्याह'उवेहमाणे'ति-उत्प्रेक्ष्यमाणो-अवगच्छन् प्रत्येक प्राणिनां सात-मनोऽनुकूलं, नान्यसुखेनाऽन्यः सुखी नापि परदुःखेन दुःखी, अतः प्राणिनो न हिंस्यात् । प्रत्येकं सातमिष्टमवलोक्यमानः किं कुर्यादित्याह-'वण्णाएसी'-वर्ण्यते-प्रशस्यते येन स वर्ण:साधुकारः तदादेशी-वर्णाभिलापी सन्नारभते कंचन पापारम्भ सर्वस्मिन्नपि लोके । किम्भूतः सन्नेतत्कुर्यादित्याह-'एगप्पमुहे 'ति-एको-मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो वा रागद्वेषाभावात् , तत्र प्रगतं मुखं यस्य स तथा, मोक्षे तदुपाये वा दत्तकदृष्टिर्न कंचन पापमारभते । किञ्च-'विदिसिपइने'-विदिक्-मोक्षसंयमाभिमुखा दिक, ततोऽन्या विदिक, तां प्रकर्षण तीर्णो विदिक्तीर्णः। स चैवम्भूतोऽप्यारम्भी न भवेत् । पुनः किम्भूतः ? 'निविनचारी' -चरणं चारोऽनुष्ठानं निर्विणस्याचारोऽस्यास्तीतिनिर्विण्णचारी। कुत इति चेत् , यतः प्रजासु अरतः, प्रजायन्त इति प्रजाः प्राणिनः, तत्रारत इति, तदारम्भनिवृत्तो निर्ममो वा, स निर्विण्णचार्येव भवति । यः पुनः प्रजासु अरक्तः, स किम्भूतः स्यात् । इत्याह
"से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिज्जं पावकम्मं तं नो अन्नेसी, जं संमंति पासहा तं मोणति पासहा, जं मोणंति पासहा तं संमंति पासहा, न इमं सकं सिदिलेहिं अदिजमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुणी मोणं समायाए धुणे सरीरगं, पंतं लूहं सेबंति वीरा सम्मत्तदंसिणो एस ओहन्तरे मुणी, तिण्णे मुत्ते विरए वियाहिएत्ति बेमि ॥" आवन्तीए वइयोदेसो सम्मत्तो।
से वसुम 'मित्यादि-वसुव्यं स चात्र संयमः, तद् विद्यते यस्य स निवृत्तारम्भो मुनिर्वसुमान् । स च-'सब समया'
SCALCCASSECड