________________
बाचाराङ्गसत्रदीपिका
॥१३८॥
SCORRHOICS
सप्ताष्टमवैर्मरतवत् कश्चिदपार्द्धपुद्गलपरावन सिध्यति । अपरोन सेत्स्यत्येव । किमित्येवं 1, यत आह-'जहित्य' | उ०६ इत्यादि-यथाऽध कुशलैर्वीतरागैरत्राऽस्मिन् संसारे परिज्ञाविवेकः बुद्धिः- विज्ञानताविशेषः भाषितः-कथितः । स च तथैवा- मोक्षयोग्य ङ्गीकर्तव्यो बुद्धिमद्भिरिति । तदेव परिज्ञाननानात्वं दर्शयन्नाह-'चुए हु वाले' इत्यादि- दुर्लभं मानुषत्वं प्राप्य च मोक्ष- सामग्या: कहेतु धर्म, पुनरपि कर्मोदयात् तसाच्युतो बालो-अज्ञो गर्भादिषु रज्यते- गर्भ आदिर्येषां ते गर्भादयस्तेष्वेव गा_मु
प्राप्तिपयाति, यथैभिः सार्द्ध मम वियोगो मा भूत् इत्यध्यवसायी भवति । पुनरप्याह-अस्सि चेय"मित्यादि-अस्मिन्नित्याईते दुर्लमेति प्रवचने एतत्पूर्वोक्तं प्रोच्यते, एतच्च वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह-रूवंसि' वा इत्यादि-रूपे चक्षुरिन्द्रियगोचरे सूचनम्। वाशब्दात् स्पर्शरसादौ च ' छणंसि वा'-क्षणनं-हिंसनं तत्र प्रवर्तते, वाशब्दादनृतस्तेयादौ च, बालो विषयादिनिमित्तं धर्मभ्रष्टः सन् गर्भादिषु रज्यते, अत्रार्हते मागगें इदमुच्यते । यस्तु गर्भहेतुं ज्ञात्वाऽऽश्रवेभ्यो निवर्त्तते स किम्भूतः स्यादित्याह- सेहु एगे' इत्यादि-स जितेन्द्रियो, हुरवधारणे, स एवैकोऽद्वितीयो, मुनिर्जगत्त्रयमन्ता । पुनः किम्भूतः ?, 'संविद्धपहे'- संविद्धपथः-सम्यग्विद्धस्ताडितः पन्था-मोक्षमाग्र्गो ज्ञानादिको येन स तथा, स एव मुनिः क्षुण्णमोक्षमार्गः। किञ्च-'अन्नहा' इत्यादि-अन्येन प्रकारेण अन्यथा, विषयकषायाभिव्याप्तं हिंसादिषु प्रवृत्तं लोकमुत्प्रेक्ष्यमाणः संविद्धपथो मुनिः स्यात् । लोकं वाऽन्यथोत्प्रेक्ष्य किं कुर्यादित्याह- ' इतिकम्म 'मित्यादि-इति पूर्वोक्तं कर्महेतुभिर्यद् बद्धं कर्म तदुपादानं च सर्वतः परिज्ञाय-ज्ञात्वा सर्वतः परिहरेत् । कथं परिहरतीत्याह-' से ण हिंसइ' इत्यादि-स कर्मपरिहा त्रिविधेनापि-कायादियोगेनापि न हिनस्ति । किञ्च-'संयमति-आत्मानं संयमयति, सप्तदशप्रकारं संयमं करोति । 'नो पगम्भ
Telm १३८॥
RSAGAR