SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ॥ मुनिगण स्वरूपप्रदर्शनम्। रागद्वेषविकल, पुनः किम्भूतः १ 'पुवावर' इत्यादि-पूर्वरात्र रात्रेः प्रथमो यामः, अपरः रात्रेः पाश्चात्यो यामः, एतद् यामद्वयमपि यतमान:-सदाचारमाचरन् मध्यवर्णियामद्वयमपि यथोक्तविधिना स्वपन् वैरात्रिकं विदध्यात । रात्रियतनाप्रतिपादनेन दिवाऽपि प्रतिपादितैव भवति यतना । 'सदासीलं 'ति-सदा-सर्वकालं शीलमष्टादशमेदभिन्न संयम वा, अथवा शीलं चतुर्दा, तद्यथा-महाव्रतसमाधान १ तिस्रो गुप्तयः २ पवेन्द्रियदमः ३ कषायनि ग्रहः ४ इत्येत. संप्रेक्ष्य मोक्षांगतयाऽनुपालयेत् । कथं शीलवान् भवेदेतदाह-' सुणिया मवेति-श्रुत्वा भवेदऽकामः, 'अझंझः'-मायालोभेच्छारहितः । तेनाऽहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यम् । अहं च भवदुपदेशात् सिंहेनाऽपि युद्ध्येऽशेषकर्ममलकलंकरहितः स्या, तथैव सत्यमार्गमुपदिशत इत्युक्ते भगवानाह-' इमेणं चेव जुज्झाहि'- अनेनैवौदारिकेण शरीरेण इन्द्रियास्मकेन विषयसुखपिपासुना स्वैरिणा सार्दू युध्यस्व-सन्मार्गावतरणतो वशीकुरु । किमपरेण-बायतस्ते युद्धेन । अन्तरारिषड्वर्गकर्मरिपुजयाद्वा सर्व सेत्स्यति भवतो, नातोऽपरं दुष्करमस्तीति । किन्त्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भव-18 कोटिसहनेष्वपि दुष्प्रापेति दर्शयितुमाह "जुद्धारिहं खलु दुल्लई, जहित्य कुसलेहिं परिन्नाविवेगे भासिए, चुए हु बाले गम्भाइसु रजइ, अस्सि चेयं पवुच्चइ, रूवंसि वा छणंसि वा, से हुएगे संविद्धपहे मुणी, अन्नहा लोगमुवेहमाणे, इय कम्म परिणाय सव्वसो से न हिंसइ, संजमई नो पगभइ, उवेहमाणो पत्तेयं सायं, वण्णाएसी नारभे कंचणं सव्वलोए एगप्पमुहे विदिसिपइन्ने निविण्णचारी अरए पयासु" ॥ 'जुद्धारिह'मित्यादि-खलुरवधारणे, दुलममेव दुष्प्राप्यमेवेति, तच्च भावयुदाई शरीरं लब्ध्वा कश्चित् तेनैव मवेन कश्चि RWANCS
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy