SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ॥१३५॥ उ०३ तानां विधिनियमात्मकं वचनं निशम्य सचित्ताचित्तपरिग्रहत्यागादऽपरिग्रहो भवति । किम्भूतस्तैर्धर्मः प्रवेदित इत्याह'समियाए' इत्यादि-शमतया-समशत्रुमित्रतया । किंभूतैः १ 'आरिएहिं '- आर्यैः- वीतरागैश्च प्रवेदितः- कथितः । स्याद् अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्यतस्तद्व्युदासार्थ भगवानेवाह-'जहेत्थे 'त्यादि- यथाऽत्र मया *ज्ञानादिको मोक्षसन्धिः 'झोसिउत्ति-सेवितः। अतो य एव भगवद्वचनानुयायी स एव मोक्षमार्गो नान्यः । एतदेवाह 'एवमन्नत्थे 'त्यादि- यथाऽत्र मया सन्धिोषितः, एवमन्यत्र- अन्यपाषण्डिकमार्गे न सन्धिः-कर्मसन्ततिरूपो दुर्योपो भवति-दुःशयो भवति, असमीचीनतया तदुपायाभावात् । अतो भगवद्वचनविकला धर्मकरणी मोक्षाध्वगमनयोग्या न भवति । यतः-जं अन्नाणी कम्मं खवेइ बहुआई वासकोडिहिं । तं नाणी तिगुत्तो खवेइ उसासमित्तेणं ॥१॥ ततः किमि- त्याह-'तम्हा बेमि'- यथास्मिन्मार्गे व्यवस्थितेन मयाऽपि विप्रकृष्टतरेण तपसा कर्म क्षपितं, ततोऽन्योऽपि साधुः संयमानुष्ठाने वीर्य नो निहन्येत्-नो निगृहयेत् , अनिगृहितबलबीर्यो भूयात् । एतदहं ब्रवीमि इत्येतद् वर्द्धमानस्ताम्याह । सुधर्मस्वाम्यपि स्वशिष्याणां कथयति स । कश्चैवम्भूतः स्यादित्याह___“जे पुवुहाई नो पच्छानिवाई, जे पुव्वुट्ठाई पच्छानिवाई, जे नो पुवुट्ठाई नो पच्छानिवाई सेऽवि तारिसिए सिया, जे परिम्नाय लोगमन्नेसयंति" . 'जे पुवुवाइ' इत्यादि- यः कश्चिद् विदितसंसारस्वभावतया धर्माचरणैकप्रवणमनाः पूर्व प्रव्रज्यावसरे संयमानुष्ठानेनोत्थातुं शीलमस्येति पूर्वोत्थागी, पश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, सिंहतया निष्क्रान्तः सिंह भगवत्कथित एव | मोक्षमार्ग: तत्र वीर्यस्फोरणीयमिति । CRECASHARANASANC5645% SACS १३५॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy