SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ॥ १३३ ॥ 'आवंती' इत्यादि - यावन्तः केचन लोके परिग्रहवन्तः स्युस्त एवम्भूतपरिग्रहसद्द्भावादित्याह - ' से अप्पं वा ' इत्यादि - तत् - द्रव्यं पत्परिगृह्यते, तद् अल्पं वा स्तोकं वा स्यात् कपर्दकादि, बहुं वा स्यान्नवविधपरिग्रहादि, तच चित्तवद् अचित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्तः एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वर्त्तिनो व्रतिनोऽपि स्युः । एतच्चाल्यादिपरिग्रहेण परिग्रहाभिमानिनां चाहारशरीरादिकं महतेऽनर्थायेति दर्शयन्नाह - ' एवमेगेसि 'मित्यादि एतदेवालपबहुत्वादिपरिग्रहेण परिग्रहत्वमेकेषां परिग्रहवतां नारकादिगमनहेतुत्वाद् महाभयं भवति । यतः - परिग्रहो महाभयमतोऽपदिश्यते । ' लोगविचं' इत्यादि - लोकस्य - असंयतलोकस्य वित्तं द्रव्यं लोकवृत्तं वा आहारादिसंज्ञारूपं, 'उवेहाए 'ति - उपेक्ष्य ज्ञात्वा परिज्ञया प्रत्याख्यानपरिज्ञया परिहरेत् । तत्परिहर्तुश्च यत्स्यात्तदाह-' एए संगे 'ति - एतान् - अल्पादिसंयोगान् शरीराहारादिसङ्गान् वा अविजानतः, अकुर्वाणस्य वा, तत्परिग्रहजनितं महाभयं न स्यात् । किञ्च " से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खू विपरिक्रम्मा, एएस चेव बंभचेरंति बेमि, से सुयं च मे अज्झत्थयं च मे - बंघपमुक्खो अज्झत्थेव इत्थ विरए अणगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अपमत्तो परिव्वर, एयं मोणं सम्मं अणुवासिज्जासित्ति बेमि " ॥ लोगसारस्स द्वितीयोदेसो ॥ ' से सुपडिनद्धे 'ति - से तस्य परिग्रहकर्तुः सुष्टु प्रतिबद्धं, सुप्रतिबद्धं सुष्टुपनीतं सुज्ञानादि, इत्येतत् ज्ञात्वा, हे पुरुष ! हे मानव ! 'परमचक्खू'- परमं ज्ञानचक्षुर्यस्याऽसौ परमचक्षुर्मोक्षैकदृष्टिर्वा सन् विविधं तपोनुष्ठानविधिना संयमे कर्म्मणि वा पराक्रमस्व । अथ किमर्थं पराक्रमणोपदेश इत्यत आह-' एएस चेव ' इत्यादि- ये इमे परिग्रहविरताः परमचक्षुषचैतेष्वेव १२ उ० २ परिग्रहो महाभयमिति - चनम् । ॥। १३३ ।
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy