________________
१३१।४
MAHAKARSAMACRORE
योज्यम् । एतद्विधायी किमपरं कुर्यादित्याह-'पुढो फासे' इत्यादि-स एवं महाव्रतव्यवस्थितः सन् स्पृष्टः परीषहोपसग्गस्तान् तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान् वा तत्सहिष्णुतया अनाकुलो भवभावनादिभिः प्रेरयन्नात्मानं भावयेत् । | यः परीषहान् सहति स किं गुणः स्यादित्याह
___“ एस समिया परियाए वियाहिए, जे असत्ता पावेहिं कम्मेहिं उदाहु ते जायंका फुसंति, इति उदाहु धीरे ते फासे पुट्ठो अहियासइ, से पुचि पेयं पच्छापेयं भेउरधम्म विद्धसणधम्ममधुवं अणिइयं असासयं चयावचइयं विष्परिणामयम्मं पासह एवं रूवसंधि"
'एस समिया' इत्यादि-एषोऽनन्तरोक्तो यः परीषहाणां प्रणोदकः समिया- सम्यकपर्यायः वियाहिएति-व्याख्यातो नापर इति । तदेवं परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य व्याधिसहिष्णुता प्रतिपादयन्नाह-'जे असत्ता' इत्यादि-ये समतृणमणिलेष्टुकाश्चनाः 'पावेहिं 'ति-पापेषु कर्मसु अशक्ता:- अक्षमाः । ' उदाहु'-कदाचित् तान् तथाभूतान् साधून 'आतंकाः ' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः स्पृशन्ति- अभिभवन्ति । यदि नामैवं ततः किमित्याह' इति उदाहु धीरे' इत्यादि-इत्येतद् वक्ष्यमाणमुदाहृतवान् कोऽसौ ? धीरो-धी:-बुद्धिस्तया राजते स च तीर्थकृद् गणधरो वा। किं तदुदाहृतवान् इत्याह-'ते फास' इत्यादि-तैरातकैः स्पृष्टः सन् तान् दुःखाननुभवन् व्याधिविशेषापादितान् अधिसहते । किं कृत्वा ? ' से पुत्रिपेयमि 'त्यादि-एतादृशं दुःखं पूर्वभवेऽपि भुक्तमस्ति, एतादृशमसातजनितं केवलिभिभुक्तमस्ति, सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यम् । अपि च- एतदौदारिकं शरीरं मृन्मयामघटादपि निस्सारतमम् । सर्वदा विशराविति दर्शयन्नाह-'भिदुरधम्म 'मित्यादि-भिद्यत इति मिदुरं, स धर्मोऽस्य शरीरस्येति मिदु
उ०२ परीषहादिप्राप्तौ शरीरस्वरूपविचारणां कृत्वा तदुःखं सहनीयमिति ।