________________
सबदीपिका ब.५
अनारम्भजीवि स्वरूपप्रदर्शनम्।
नगाराः समस्तारम्मनिवृत्ता इत्यर्थः । संयमशरीरपालनार्थमनवद्यमोजिनः । यद्येवं ततः किमित्याह-'एत्थोवरए 'ति-अत्राऽस्मिन् सावद्यारम्भे कर्त्तव्ये उपरतः संकुचितगात्रः । पापारम्भादुपरतः किं कुर्यात् १, 'तं झोस' इत्यादि- तत् सावद्यानुष्ठानसमायातं कर्म झोषयन्-क्षपयन् मुनिभावं भजत इति । किमभिसन्धायात्रोपरतः स्यादित्याह- 'अयं संधी' त्यादि-अयं आर्यक्षेत्रसुकुलोत्पत्तिश्रद्धासंवेगलक्षणः सन्धिरवसरो मिथ्यात्वक्षयानुदयलक्षणो, अथवा कर्मविवरसन्धिरित्येनं स्वात्मव्यवस्थितमद्राक्षीत् भवान् , अतः क्षणं न प्रमादयेत्-विषयविमुखो भूयादित्यर्थः । अप्रमत्तः कः स्यादित्याह-'जे इमस्स' इत्यादिउपलब्धतच्चोऽस्य विग्रहस्य शरीरस्य, तस्याऽयं क्षणः सुखदुःखात्मकः एवम्भूतश्च भावीत्येवं क्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति । अयं मागः केन कथित इत्याह-एस मग्गे' इत्यादि-एषो मोक्षसाधनलक्षणो मार्ग: आयतिरागैः प्रवेदितः प्रतिपादित इत्यर्थः । 'उहिए 'ति-ज्ञात्वा प्राणिनां प्रत्येकं दुःखं तदुपादानं वा कर्म तथा प्रत्येकं सातं च मन आहादकारि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म वा, प्रत्येकं तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह-'पुढो' इत्यादि- पृथग विभन्नः छंदोऽमिप्रायो येषां ते पृथक्छन्दा:- नानाकर्मबन्धाध्यवसायस्थानाः, इहेति संसारे के ते? मानवा मनुष्याः, उपलक्षणत्वादन्येऽपि संज्ञिनां पृथक्संकल्पत्वात् तत्कार्य | कापि पृथगेव, तत्कारणमपि दुःखं नानारूपं पवेइयं-प्रवेदितं- कथितं दुःखं सर्वेषां पृथक् प्रवेदितम् । नाऽन्यकृतमन्य उपभुंक्ते । स्वकृतभोक्तारः सर्वेऽपि प्राणिन इत्येतन्मत्वा किं कुर्यादित्याह- "से अविहिंसमाणे' इत्यादि-सोऽनारम्भजीवी प्रत्येकं सुखदुःखाध्यवसायी प्राणिनो विविधैरुपायैरहिंसन् , तथा अनपवदन्-मृषावादमब्रुवन् , एवं परस्वमगृहन् , इत्या
SOCREC
॥ १३०॥