________________
S
॥११९॥
+
उ०३ आयुष्यपरिगलनं
दृष्ट्वा | क्रोधादि
दोषाः
4-1515N
ति-एवमनेन पूर्वोक्तविधिना आत्मसमाहितो ज्ञानदर्शनचारित्रोपयुक्तः सन् तपोग्निना कर्मेन्धनानि दहस्व-मससाकुरू। किम्भूतः सन् , 'अणिहे "ति-अस्नेहः स्नेहवर्जितः सन् , अत्र स्नेहपदेन रागनिवृत्तिं विधार द्वेषनिवृत्ति विधित्सुराह'विगिंच 'त्ति-त्यज, कं ? क्रोधमप्रीतिद्वेषलक्षणं, क्रोधामातः कम्पनं करोति अत एव अविकम्पमानः सन् । ___" इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाई च फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पाबेहिं कम्मेहिं अणियाणा ते वियाहिया, तम्हा अतिविजो नो पडिसंजलिज्जासित्ति बेमि ॥ सम्मतस्स तइओ उद्देसो"।
'इमं निरूद्धाउयंति 'ति-इमं मनुष्यत्वं निरूद्धायुष्क-निरूद्ध-परिगलितं आयुष्यकं सम्प्रेक्ष्य-पर्यालोच्य क्रोधपरित्यागं | कुर्यात् । 'दुक्खं च जाण 'मि. क्रोमाद् दुःखमेवोत्पधते तजानीहि- तजनितकर्मविपाकापादितं चामामि दुःखं. सम्प्रेक्ष्य क्रोधादिकं परित्यजेरित्यर्थः। आगामिदुःखस्वरूपमाह-'पुढो' इत्यादि-आगामिभवे पृथक् पृथक् सप्तनरकादिषु दुःखान् शीतोष्णादिरूपान् स्पृशेत्-अनुभदेत् । तेन चातिदुःखेन अपरोऽपि लोको दुःखित इत्येतदाह-'लोयं च ' इत्यादि-न केवलं क्रोधादिविपाकादात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखोपपत्रं विस्फन्दमानमस्वतन्त्रमितश्चेतश्च दुःखप्रतिकाराय धावन्तं पश्य विवेकचक्षुषा अवलोकय । ये त्वेवं न, ते किम्भूता मवन्तीत्याह-'जे निव्वुड ' इत्यादि-वे तीर्थकरोपदेशवासितान्तःकरणा विषयकषायोपशमात् निवृत्ता:-शीतीभूताः पापेषु कर्मसु, अनिदाना:-निदानरहिताः, ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः । यत एवं ततः किमित्याइ-'तम्हातिविजो 'ति-यमाद् रागद्वेषामिभूतो दुःखमाग् भवति, तस्मादतिविद्वान् विदितागमसद्भावः सन् न प्रतिसंज्वलेत-क्रोधाग्निनात्मानं नोपदीपयेत्-
त्याज्या इति।
OCIECCCCCAEX
ASALES
१९॥