SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ स्त्रदीपिका ब०४ ॥११२॥ ACCORDARSASURE ___“आपाइ नाणी इह माणवाणं संबुज्ज्ञमाणाणं संसारपडिवण्णाणं विनाणपत्ताणं अट्टावि संता बदुवा पमचा अहासचमिणं तिबेमि, नाणागमो मच्चुमुहस्स अत्यि, इच्छापणीया वंकनिकेया कालगहीया निचयनिविट्ठा पुढो पुढो जाई पकप्पयंति"। 'आघाइति'-देशीत्वाद् आख्याति-आचष्टे, इहेनि-प्रवचने, केषांचिन्मानवानां, सर्वसंवरचारित्राईत्वाचेषां, उपलक्षणं चैतद् देवादीनां तत्रापि केवल्यादिव्युदासाय विशेषणमाह-'संसारपडिबन्नाणं 'ति-संसारं चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः। तत्रापि ये धर्म भोत्स्यन्ते गृहीष्यन्ते च मुनिसुव्रतस्वामिघोटकदृष्टान्तेन तेषामेवाख्यातीति दर्शयति-संबुज्झमाणाणं'-यथोपदिष्टं धर्म सम्यगवबुध्यमानानां, पुनः किम्भूतानां', 'विण्णाणपत्ताणं 'ति-विज्ञानप्राप्तानां-अहितप्राप्ति परिहाराभ्यवसायो विज्ञानं तत्प्राप्ता विज्ञानप्राप्तास्तेषाम् । यथा च ज्ञानी धर्मामाचष्टे तथा दर्शयति-'अट्टावि संत "तिविज्ञानं प्राप्ता धर्म कथ्यमानं कुतश्चिनिमित्तादार्चा अपि सन्तः चिलातिपुत्रादय इव, अथवा प्रमचा विषयामिष्वङ्गादिना शालिमद्रादय इव तथाविधकर्मक्षयोपशमापत्चेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे । यदिवाऽऽर्ता दुखिनः, प्रमचा:-सुखिनः, तेऽपि प्रतिपद्यन्ते धर्म, किं पुनरपरे, एतच्चान्यथा मा मंस्था इति दर्शयितुमाह-'अहासच' मित्यादि-सत्यमिदं पन्मया कथितं, इत्येतदहं ब्रवीमि-दुःप्राप्यं प्राप्य सम्यक्त्वं प्रमादो न कार्यः। स्यात् किमालम्म्य प्रमादो न कार्यस्तदाह'नाणागमो' इत्यादि-न हि अनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्त्तिनोऽस्ति । ये विषयामिलाषिणो धर्म नावमुख्यन्ते, ते किम्भूता ? भवन्तीत्याह- इच्छापषीय 'ति-इच्छया प्रणीता:-स्वेच्छाचारिणः, एवंभूतास्ते बंकनिकेता:असंयमाभयभूता इत्यर्थः, एवंभूतास्ते कालगृहीता:-पौनःपुन्येन मरणमाजः । अथवा ते इच्छाचारिणः कालगृहीता: उ.१ आर्चप्रमचानामपि ज्ञानिना धर्मदेशना कथितेति सूचनम् । +
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy