SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ॥ १११ ॥ ואן तपश्चरणदशविधचक्रवालसमाचार्यनुष्ठानादीनि तान्येव कर्मोदयावष्टब्धशुमाध्यवसायस्य दुर्गतिमार्गप्रवृत्त सार्थवाहस्य जन्तोमहाशात नावतः सातर्द्धिरसगौरवप्रवणस्याश्रवा भवन्ति पापोपादानकारणानि जायन्ते । यावन्ति कर्मनिर्जरार्थं संयमस्थानानि असंयमस्थानान्यपि तावन्त्येव, कण्डरीकादिवत् । सरागस्य वनवासोऽपि गृहतुल्यः, निरागस्य गृहमपि तपोवनमिति वचनाद्, यतः - वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्म्मणि यः प्रवर्त्तते, निवृत्तरागस्य गृहं तपोवनमिति । तथाहि - रागद्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात्सर्वं संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशर्करादिकटुत्वापत्तिवत्। सम्यग्दृष्टेस्तु विदितसंसारसमुद्रस्य त्यक्तविषयाभिलाषस्य संजातसंवेगस्य इतरजनसंसारकारणमपि मोक्षायेति भावार्थ: । पुनरेवदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह - 'जे अणासवे 'त्यादि -आश्रवेभ्योऽन्येऽनाश्रवाः - व्रतविशेषास्तेऽपि कम्र्मोदयादशुभध्यवसायिनोऽपरिश्रवाः कर्मणः । तथा अपरिश्रवाः पापोपादनकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणा अनाश्रवाः - कर्मबन्धनानि न भवन्ति । यद्येवं ततः किमित्याह – “ एए पए संबुज्झमाणे 'ति एतान्यनन्तरोक्तानि पदानि ये आश्रवा इत्यादीनि सम्यक् - अविपर्यासेन बुध्यमानः - संबुध्यमानः सन्, ' लोगं च आणाए 'त्ति - लोकं जन्तुगणं आश्रवद्वारायातेन कर्मणा बद्ध्यमानं तपश्वरणादिना मुच्यमानं ' आज्ञया 'तीर्थकरप्रणीतागमानुसारेण अभिसमेत्य - ज्ञात्वा ' पुढो पवेइयं 'ति – पृथक् प्रवेदितं पृथगाश्रवोपादानं निर्जरोपादानं वा इत्येतच्च ज्ञात्वा, को नाम धर्मे चरणं प्रति नोद्यच्छेत्-नोद्यमं कुर्यात् १, एवं तीर्थकरैः प्रवेदितम् । अथाऽन्योऽपि ज्ञानी परहिताय आवेदयतीत्याद उ० ₹ सम्यग्दृष्टेमहात्म्य प्रदर्शनम् । ॥ १११ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy