________________
बाबाराजसदीपिका
CASALI
आभकपरिश्रव परमाई दर्शनम् ।
॥११
॥
SASRESANKARACT
"अहो व रामो व जयमाणे धीरे सया बायपणाणे पमचे पहिया पास अपम्मत्ते सया परिवामिजासिति बेमि" सम्मत्तस्स पढमोहेसो। .
'अहो य राओ'त्ति अहोरात्रं यतमान एव यत्नवानेव मोक्षाध्वनि, धीरः परिषहोपसर्गाऽक्षोभ्यः, सदा-सर्वकालं आगतं स्वीकृतं प्रज्ञानं-सदसद्विवेको यस्य स तथा । 'पमचे'ति-प्रमत्तान्-असंयतान् सर्वतीथिकान् परतीथिकान् वा धर्माद् बहिर्व्यवस्थितान् 'पास'ति-पश्य- अवलोकय । तान् तथाभूतान् भगवत्प्रणीतसमाचाराचरणविमुखान् दृष्ट्वा, किं कुर्यादित्याह- अपमत्तेति- अप्रमत्तः सन् मोक्षाध्वनि सदा पराक्रमेथाः । ब्रवीमि पूर्ववत्, इति सम्यक्त्वाध्ययने प्रथमोद्देशक ___ अथ प्रथमोद्देशके सम्यग्दर्शनं प्रतिपादितं । तच्च सम्यग्ज्ञानाद् भवति तदर्थ द्वितीयोद्देशकः प्रारम्यते । तस्यादिमं सूत्रम्
"जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिचा पुढो पवेइयं "
'जे आसवा' इत्यादि- ये आश्रवाः आश्रवत्यष्टप्रकारं कर्म यैरारम्भस्ते आश्रवाः, परिसमन्तात् श्रवति-गलति अष्टविधं कर्मेति यैरनुष्ठानस्ते परिश्रवाः । य एवाश्रवाः कर्मवन्धस्थानानि, त एव परिश्रवाः-कर्मनिर्जरास्पदानि । इदमुक्तं भवति- यानीतरजनाचरितानि स्रगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वादाश्रवाः, पुनस्तान्येव तत्त्वविदां विषयसुखपराड्मुखानां निःसारतया संसारसरणिदेश्यानीति कृत्वा बैराग्यजनकानि, अतः परिश्रवा निर्जरास्थानानि भरतसगरसंयतिपुण्डरिकादिवत् । सर्ववस्तूनामनैकान्तिकता दर्शयितुमेतदेव विपर्ययेणाह- य एव परिश्रवाः-निर्जरास्थानानि अर्हत्साधु-
॥११.