________________
उ.
.
सर्व
कालिनसर्वशो
पदेश
AISCARECHALA
खरूपम् ।
विति एवं परूविति- सम्वे पाणा सन्चे भूया सव्वे जीवा सम्बे सत्ता न हंतव्वा, न अजावेयव्वा, न परिधितव्वा न परियावेयव्वा, न उद्दवेयव्वा, एस धम्मे सुद्धे निइए सासए समिञ्च लोयं खेयण्णेहि पवेइए, तंजहा-उट्ठिएसु वा अणुट्ठिएसु वा उवट्ठिएसु वा अणुवट्ठिएसु वा उवरयदंडेसु वा अणुवरयदंडेसु वा सोवहिएसु वा अणोवहिएसु वा संजोगरएसु वा असंजोगरणसु वा, तच्चं चेयं तहा चेयं अस्सि चेयं पवुच्चइ"
से बेमी 'त्यादि-सोऽहं ब्रवीमि- यच्छ्रद्धाने सम्यक्त्वं भवति तदहं तत्त्वं ब्रवीमीति | 'जय अतीता' इत्यादि-येऽतीता अतिक्रान्ताः, ये चागामिनस्ते चैवं प्ररूपयन्तीति-सम्बन्धः । अर्हन्ति पूजासत्कारादिकमर्हन्तः, भगा औश्वर्याद्युपेता भगवन्तस्ते सर्वे एवमाचक्षते एवमाचक्षिरे एवमाख्यास्यन्ति । एवं सामान्यतः सदेवमनुजायां पर्षदि अर्द्धमागधभाषया भाषते । एवं प्रकर्षेण जीवादीन्पदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति । एवं सम्यग्ज्ञानदर्शनचारित्राणि मोक्षमार्गः, मिथ्यात्वाऽविरतिप्रमादकपाययोगा बन्धहेतवः, इत्यादिना प्रकारेण प्ररूपयन्ति । किमेतद् , दर्शयति-'सवे पाण'त्ति-सर्वे प्राणा इति प्राणिनः, सर्वे भूताः, भवन्ति भविष्यन्ति अभूवन् इति भूतानि-चतुर्दशभूतग्रामान्तःपातीनि, सर्वे जीवाः सर्वे सत्वाः सातासातसुखदुःखवेदिनः, सर्वेऽप्येकार्थाः। एते च सर्वे न हन्तव्या दण्डकशादिभिःण अजावेयवा-नाज्ञापयितव्याः-प्रसह्याभियोगदानतः, णपरिघेतवा-परिग्राह्या-भृत्यदासदास्यादिममत्वपरिग्रहतः, न परितावेयवा-शारीरमानसपीडोत्पादनतः, न उद्दवेयवा नोपद्रावयितव्याः प्राणव्यपरोपणतः। स धम्मेति- एषोऽनन्तरोक्तः सर्वे प्राणा न हन्तव्या इत्यादिको, धर्मो दुर्गत्यर्गलामुक्तिसोपानदेश्यः। किम्भूतः, शुद्ध:- पापानुवन्धरहितः, तथा नित्योपच्युतिरूपः पंचसु विदेहेषु सदाभावात् , शाश्वद्गतिहेतुत्वात्