________________
याचाराङ्ग
दीपिका
ब० ३
# १०२ ।।
व्याकुलतां परित्येजदिति भावः । किश्च
पासिमं ' इत्यादि यदुक्तमुद्देशकादेरारभ्यानन्तर सूत्रं यावत् तमिममर्थ पश्यकर्त्तव्याकर्त्तव्यविवेकेनावधारय, कोऽसौ ? ' दविए 'चि-द्रविकः- मुक्तिगमनयोग्यः साधुरित्यर्थः । एवम्भूतच कं गुणमवामोति १-' लोए' इत्यादि - आलोक्यते इत्यालोकः कर्म्मणि घञ्, लोके चतुदर्शरज्वात्मके आलोको लोकालोकस्वस्य प्रपञ्चः - पर्याप्तसुभगादिद्वन्द्वविकल्पः, तद्यथा - नारको नारकत्वेनावलोक्यते, एकेन्द्रियादिरे केन्द्रियत्वेन, एवं सर्वत्रापीति वाच्यम् । तदेवम्भूतात्प्रपश्चान्मुच्यते- चतुर्दशजीवस्थानान्यतरव्यपदेशार्हो न भवतीति ब्रवीमीति तृतीयोदेशकः ॥ अथ चतुर्थ आरभ्यते, तस्यादिमं सूत्रम् -
" से बंता कोहं च माणं च मायं च लोभं च, एयं पासगस्स दंसणं, उवरयसत्थस्स पलियंतकरस्स, आयाणं सगडन्भि " ' से बन्ता ' इत्यादि - यो लोकालोकप्रपश्चान्मुक्तो भवति, ' से 'इति स वान्तावमिता क्रोधमानमायालोभादीनां, क्रोधमानमायालो भवमनादेव पारमार्थिकः श्रमणभावो, न तत्संभवे सति । यत उक्तं- सामन्नमणुचरन्तस्स कसाया जस्स उकडा हुंति । मन्नामि उच्छुपुष्पं व निष्फलं तस्स सामन्नं ॥ १ ॥ जं अज्जियं चरितं, देसूणावि पूढकोडीए । तंपि य कसायमचो, हारेह नरो मुहुत्तेणं ॥ २ ॥ स्वमनीषिकापरिहारार्थं गणभृदाह - ' एयं पासगस्स दंसणं 'ति - एतत् यत्कषायवमनमनन्तरमुपादेशि तं तत् पश्यकस्य दर्शनं- सर्व्वं निरावरणत्वात्पश्यति - उपलभते स पश्यः, स एव पश्यकः - तीर्थकृत् श्रीवर्द्धमानस्वामी तस्य । किम्भूतस्य १, 'उवरयसत्यस्स 'ति- उपरतशस्त्रस्य, उपरतं-विफलीकृतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्रस्वस्य द्रव्यशस्त्रमायसादिकं, भावशस्त्रं त्वसंयमः कषाया वा, तस्मादुपरतः । शखोपरमकार्यं दर्शयन् पुनरपि तीर्थकरविशे
उ० ४।
तीर्थकर -
दर्शन
स्वरूपम् ।
।। १०२ ॥