________________
याचाराङ्ग सूत्रदीपिका
५० ३ ॥ १०० ॥
विद्यते ग्रहो गायं यस्य सोऽग्रहः, स एवम्भूतश्चरेत् । 'सहं हासं परिच्चा 'चि सर्व्वं हास्यं तदास्पदं वा परित्यज्य, आद मर्यादया इन्द्रियनिरोधादिकया लीन आलीनो, गुप्तो मनोवाक्काय कर्म्मभिः, कूम्र्म्मबद्वा संवृतगात्रः, आलीनवासौ गुप्तथालीनगुप्तः स एवंभूतः परिव्रजेत् संयमानुष्ठायी भवेदित्यर्थः । तस्य च साधोरात्मसामर्थ्येन संयमानुष्ठानं फलवद् भवति न परोपाधिना इति दर्शयति-' पुरिसा तुमेवे 'त्यादि - कश्चित्संसारादुद्विग्न आत्मानमनुशास्ति, परेण वा साध्वादिना अनुशास्यते, यथा हे पुरुष ! हे जीव ! तव सदनुष्ठानविधायित्वात् त्वमेव मित्रं, विपरीताचरणादऽमित्रः । किमिति ? ' बहियत्ति ' - बहिर्मित्रमिच्छसि - वाञ्छसि १, बहिमिंत्रादऽल्पसुखलौल्यात्संसारार्णवपतनं भवति । आत्मैवात्मनोऽप्रमतो मित्रं, आत्यन्तिकैकान्तिक परमार्थसुखोत्पादनात् विपर्ययाच्च विपर्ययो न बहिर्मित्रमन्वेष्टव्यमिति । यो हि निर्वाणनिर्वर्त्तकं व्रतमाचरति स आत्मनो मित्रं स चैवम्भूतः कुतोऽवगन्तव्यः १ किं फलश्रेत्याह
" जं जाणिवा उञ्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिवा दूरालइयं तं जाणिज्जा उचालइयं, पुरिसा ! अचाणमेयं अभिणिगिज एवं दुक्खा पमुञ्चसि पुरिसा ! सथमेव समभिजानाहि, सञ्चस्स आणाए से उबट्टिए मेहावी मारं तरह, सहिओ धम्ममायाय, सेयं समणुपस्सइ
'जं जाणिजा ' इत्यादि - यं पुरुषं जानीयात् विषयसङ्गानां कर्म्मणां चोवालयितारं - अपनेतारं तं जानीयाद् दुरालयिकमिति - दूरे सर्वयधम्र्मेभ्य इति आलयो दूरालयो-मोक्षः तन्माग्गों वा स विद्यते यस्येति दूरालयिकः, तं दर्शयति' जं जाणेअ 'चि- यं जानीयाद् दूरालयिकं तं जानीयादुच्चालयितारम् । इदमुक्तं भवति -यो हि कर्म्मणां तदाश्रवद्वाराणां
उ० ३
व्रतारांध
केन बहिमिंत्रान्वेषणं
न कर्त्तव्य
मिति सूचनम् ।
॥ १०० ॥